This page has been fully proofread once and needs a second look.

१६ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
घनघर्मलङ्घितकपोलभित्तयः श्वसितानुबन्धविधुरीकृताधराः ।
 

धनिनां पुरः प्रकटयन्ति दुर्गतिं द्युतिहीनदीनवदना धनार्थिनः ॥ ५ ॥

 
तदनन्तरं तरलताक्षरां गिरं चिरसंभृतप्रमदसादगद्गदाम् ।

विहितावहेलजगतीपतीक्षितास्त्रपयापयापितमुखाः प्रयुञ्जते ॥ ६ ॥

 
[^१]
अवधीर्यमाणमथ दीर्घमत्सरैरवबोधवन्ध्यहृदयैरनादृतम् ।

गुणकौशलं शलभजृम्भितोपमं प्रथयन्ति [^२]यान्ति च परं पराभवम् ॥ ७ ॥

 
इति दीर्घदुर्भर कुटुम्बडम्बरा धनसंग्रहग्रहगृहीतचेतसः ।

सुधियोऽपि यान्ति निबिडं विडम्बनं वनवासिभिः प्रहसितप्रवृत्तयः ॥८॥

[^३]
(चक्कलकम्)
 
M
 
दृशाः । तथा...
 

 
धनलवप्रात्याशया धावंधावं दूरगमनाद्धनेन घर्मेण स्वेदेन लक्षिङ्गिता कपोलभित्तिर्येषां

ते । तथा दूरधावनेन यः श्वसितस्यानुबन्धस्तेन विधुरीकृतो म्लानीकृतोऽधरो येषां ता-
.........

दृशाः। तथा......... ।
धनार्थिनो वित्ताभिलाषिणो जना निनामा-

ढ्यानां पुरः स्वां दुर्गतिं प्रकटयन्ति । तदनन्तरं च विहितावहेलाः कृतावगणना ये जग-

तीपतयो नृपास्तैरीक्षिताः । त्रपया लज्जयापयापितमधोमुखं मुखं येषां तादृशाः । त एव

धनार्थिनो याच्ञया तरलितान्यक्षराणि यस्यां सा तादृशोम्, तथा चिरसंभृतो बहुकालं

मनसि धृतो यः प्रसादः किंचिद्धनप्राप्तिहर्षस्तस्य यः सादो नाशो दातुर्वक्रमुखत्वादिवी-

क्षणात् । तेन गद्गदा पदे पदे स्खलन्ती ताम् । एवंविधां गिरं वाचं प्रयुञ्जते कथयन्ति ।

अथानन्तरं दीर्घो मत्सरः परोत्कर्षासहनं येषां तादृशैर्ज्ञानलवदुर्विदग्धैरवधीर्यमाणमवग-

ण्यमानम् । तथावबोधेन तत्त्वार्थावबोधेन वन्ध्यं हृदयं येषां तादृशैरनभिज्ञैरनादृतमकृता-

दरम् । शलभस्य पतङ्गस्य जृम्भितमुत्फ्रुप्लुतिस्तत्तुल्यं निजगुणकौशलं त एव धनार्थिनः

प्रथयन्ति प्रकाशयन्ति । परमुत्कृष्टं पराभवं च यान्ति । इति पूर्वोक्तप्रकारेण दीर्घो

विततो दुर्भरो दुर्धरः कुटुम्बडम्बर: कुटुम्बाटोपो येषां तादृशाः । धनसंग्रहार्थेथं यो ग्रहो

हेवाकः स एव ग्रहो भूतादिस्तेन गृहीतं मानसं येषां तादृशाः । अत एव वनवासिभि-

र्जाङ्गलिकलोकैर्मुनिभिः प्रहसिता हसितुं प्रवृत्ता विडम्बिता प्रवृत्तिर्व्यापारो येषां तादृशा

निबिडं दृढं विडम्बनं यान्ति प्राप्नुवन्ति ॥ चक्कलकम् ॥
 

 
कृतिनः पुनर्मृदुमृदङ्गमङ्गलस्वनसंनिभध्वनितनिर्झरोर्मिषु ।

कृतवृत्तयः सुलभशाद्वलावलीवलितस्थैथ[^४]लेषु तुहिनाद्रिसानुषु ॥ ९ ॥

 
सुरसिन्धुरोधसि गृहीतकेतकी[^५]चलिताङ्गुलीकिसलयेन पाणिना ।

विविधां विधाय विधिना पिनाकिनः करुणार्णवस्य चरणाब्जसत्क्रियाम् ॥

 
[^
]. 'अवदीर्य' ख.
[^
]. 'यन्ति' ख.
[^
]. ख- पुस्तके 'चक्कलकम्' इति नास्ति.
[^
.
].'स्थलीषु' ख.
[^
]. 'दलित' ख.
 
२४५
 
Digitized by Google
 
-