This page has not been fully proofread.

१६ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
घनघर्मलङ्घितकपोलभित्तयः श्वसितानुबन्धविधुरीकृताधराः ।
 
धनिनां पुरः प्रकटयन्ति दुर्गतिं द्युतिहीनदीनवदना धनार्थिनः ॥ ५ ॥
तदनन्तरं तरलताक्षरां गिरं चिरसंभृतप्रमदसादगद्गदाम् ।
विहितावहेलजगतीपतीक्षितास्त्रपयापयापितमुखाः प्रयुञ्जते ॥ ६ ॥
अवधीर्यमाणमथ दीर्घमत्सरैरवबोधवन्ध्यहृदयैरनादृतम् ।
गुणकौशलं शलभजृम्भितोपमं प्रथयन्ति यान्ति च परं पराभवम् ॥ ७ ॥
इति दीर्घदुर्भर कुटुम्बडम्बरा धनसंग्रहग्रहगृहीतचेतसः ।
सुधियोऽपि यान्ति निबिडं विडम्बनं वनवासिभिः प्रहसितप्रवृत्तयः ॥८॥
(चक्कलकम्)
 
M
 
दृशाः । तथा...
 
धनलवप्रात्याशया धावंधावं दूरगमनाद्धनेन घर्मेण स्वेदेन लक्षिता कपोलभित्तिर्येषां
ते । तथा दूरधावनेन यः श्वसितस्यानुबन्धस्तेन विधुरीकृतो म्लानीकृतोऽधरो येषां ता-
......... धनार्थिनो वित्ताभिलाषिणो जना घनिनामा-
ढ्यानां पुरः स्वां दुर्गतिं प्रकटयन्ति । तदनन्तरं च विहितावहेलाः कृतावगणना ये जग-
तीपतयो नृपास्तैरीक्षिताः । त्रपया लजयापयापितमधोमुखं मुखं येषां तादृशाः । त एव
धनार्थिनो याच्ञया तरलितान्यक्षराणि यस्यां सा तादृशोम्, तथा चिरसंभृतो बहुकालं
मनसि धृतो यः प्रसादः किंचिद्धनप्राप्तिहर्षस्तस्य यः सादो नाशो दातुर्वक्रमुखत्वादिवी-
क्षणात् । तेन गद्गदा पदे पदे स्खलन्ती ताम् । एवंविधां गिरं वाचं प्रयुञ्जते कथयन्ति ।
अथानन्तरं दीर्घो मत्सरः परोत्कर्षासहनं येषां तादृशैर्ज्ञानलवदुर्विदग्धैरवधीर्यमाणमवग-
ण्यमानम् । तथावबोधेन तत्त्वार्थावबोधेन वन्ध्यं हृदयं येषां तादृशैरनभिज्ञैरनादृतमकृता-
दरम् । शलभस्य पतङ्गस्य जृम्भितमुत्फ्रुतिस्तत्तुल्यं निजगुणकौशलं त एव धनार्थिनः
प्रथयन्ति प्रकाशयन्ति । परमुत्कृष्टं पराभवं च यान्ति । इति पूर्वोक्तप्रकारेण दीर्घो
विततो दुर्भरो दुर्धरः कुटुम्बडम्बर: कुटुम्बाटोपो येषां तादृशाः । धनसंग्रहार्थे यो ग्रहो
हेवाकः स एव ग्रहो भूतादिस्तेन गृहीतं मानसं येषां तादृशाः । अत एव वनवासिभि-
र्जाङ्गलिकलोकैर्मुनिभिः प्रहसिता हसितुं प्रवृत्ता विडम्बिता प्रवृत्तिर्व्यापारो येषां तादृशा
निबिडं दृढं विडम्बनं यान्ति प्राप्नुवन्ति ॥ चकलकम् ॥
 
कृतिनः पुनर्मृदुमृदङ्गमङ्गलस्वनसंनिभध्वनितनिर्झरोर्मिषु ।
कृतवृत्तयः सुलभशाद्वलावलीवलितस्थैलेषु तुहिनाद्रिसानुषु ॥ ९ ॥
सुरसिन्धुरोधसि गृहीतकेतकीचलिताङ्गुलीकिसलयेन पाणिना ।
विविधां विधाय विधिना पिनाकिनः करुणार्णवस्य चरणाब्जसत्क्रियाम् ॥
१. 'अवदीर्य' ख. २. 'यन्ति' ख. ३. ख- पुस्तके 'चक्कलकम्' इति नास्ति. ४.
'स्थलीषु' ख. ५. 'दलित' ख.
 
२४५
 
Digitized by Google
 
-