This page has not been fully proofread.

१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
इतः । विश्रम्येत्यादि । श्रीशिवस्य नवने स्तवने एव नन्दनवने देवोद्याने विश्रम्य स
खेदो भ्रमणजो ममावसानं समाप्ति संप्रत्यधुना समेति प्राप्रोति च ॥ एतद्वृत्ताशयानु-
सारेण ममापीदं वृत्तद्वयम् – 'भ्रान्त्वा निसर्गकुटिलेष्वपथेष्वजनं मोहान्धकारपटलेन
निमीलितोऽयम् । दिष्टया शिवस्तुतिसुरद्रुमवाटिकायां विश्रान्तिमेति मम मानसचञ्चरो-
कः ॥' तथा – 'मोहध्वान्तग्लपनवित्रशः कापथेषु प्रकामं रे रे चित्तभ्रमर विमते कि
मुधा बम्भ्रमोषि । शंभुलाघासुरतरुवने लीन एकान्ततः स्याः संतापस्ते भवमरुभवो
नान्यथा शंशमीति ॥' इति ॥
 
यत्पार्वणेन्दुकरमुन्दरवाहहंस-
संवासदुर्ललितयापि वचोधिदेव्या ।
विश्रम्यते मनसि नः समले सलीलं
 
तत्सौभगं भगवतो जयतीन्दुमौलेः ॥ २६ ॥
 
यत्पार्वणेन्दुकरेति । भगं विद्यते यस्य । 'ऐश्वर्यस्य समप्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इति स्मृतम् ॥' तद्वतो भगवतश्चन्द्रमौलेर्महेशस्य त-
त्सौभगं सौभाग्यं जयति सर्वोत्कृष्टो भवति । तत्किम् । वचोधिदेव्या वचसामधिदेवी
अधिष्ठातृदेवता वाग्देवता तया वाग्देवतयापि समले सकालुष्ये मलिने नश्चेतसि यद्वि-
श्रम्यते । किंभूतया तया । पर्वणि भवः पार्वणः पूर्णश्चन्द्रस्तस्य करवद्रश्मिवत्सुन्दरो
यो वाइहंसः श्वेतगरुत् तस्मिन्संवासेन नित्यवासेन दुर्ललितया । सदैवाभ्यस्तयेत्यर्थः ।
शिवैकताध्यानतत्परेऽस्माकं मनसि कलुषेऽपि यद्वाग्देव्या विश्रम्यते तत्कामुकसौभाग्य-
फलम् । निश्चयेन प्रियासंगम इत्याशयः ॥
 
यं भूषयन्ति कमनीयमहीनभोगाः
स्तुत्वा भवन्ति कृतिनो यमहीनभोगाः ।
चित्तोचितं तमपहाय महीनभोगाः
 
कर्तुं परत्र घृतसंयम ही न भो गाः ॥ २७ ॥
 
यमिति । 'ही भर्त्सने खेदे च' इति क्षीरस्वामी । ही खेदे । भोश्चित्त मनः, उचितं
कर्तृ न भवति । अर्थात्तवैवेत्यर्थः । किं कर्तुम्, गा वाचः कर्मभूता महीनभोगाः कर्तुम् ।
मही च नमश्च ते महीनभसी । ते गच्छन्तीति महीनभोगाः । चित्त कीदृश, धृतसं-
यम । धृतः संयमः शान्तिस्वरूपो येन तत् । तस्य संबोधनं धृतसंयम । कुत्र । परत्र
विषये कर्तुम् । किं कृत्वा । तं पूर्वार्धविशेषणविशिष्टं भगवन्तं श्रीशिवमपहाय त्यक्त्वा ।
तं कमित्याह – यं भूषयन्तीति । अहीनभोगा अहीनां भुजगानामिना अहीना भुज-
गेन्द्रा वासुकिमुख्यास्तेषां भोगा वपूंषि कमनीयं काङ्क्षणीयं भक्तजनैये भूषयन्ति । यं
च भगवन्तं स्तुत्वा कृतिनः सुधियोsहीनभोगा न हीना भोगा विषया येषां ते। परि-
पूर्णभोगा भवन्तीत्यर्थः । पादान्तयमकम् ॥
 
Digitized by Google