This page has been fully proofread once and needs a second look.

२४२
 
काव्यमाला ।
 
उग्रैर्दुस्तरै रौगैर्ज्वरादिभिरसाध्यैरखिलं विगलत्सौष्ठवं यस्य स तादृशः । अत एवा-

शुचिन्यपवित्रे शयने शय्यायां पर्यस्तानि विस्तीर्य प्रक्षिप्तान्यङ्गानि करचरणादीनि येन

सः । यावज्जीवं जननसमयादारभ्याहितं दुष्कृतं विहितं कर्म स्मृत्वा स्मृत्वा स्मारं

स्मारं मया मूढेन किं कृतमिति पश्चात्तापेन दलितं खण्डितं हृदयं यस्य सः । कातरो

दीनः । कांदिशीकः को दिशं यामीति भयेन त्रस्तः । 'कांदिशीको भयद्रुतः' इत्यमरः ।

तर्षस्यालोभस्योत्कर्षादतिलालसत्वात्कलुषैः परुषैः क्रूरैश्च शर्महृद्भिः कल्याणहरैः कर्म-

भिभृंशमत्यर्थभृशमत्यर्थं शरीरं क्लेशयित्वा कथमप्यतियत्नेन यत्प्राप्तमखिलं द्रविणं धनं रिक्यप्थग्रा है-

र्भा
गिभिरंशहरैः सहजादिभिस्तद्धनमग्रे लुण्ठथमानं पश्यन् । पुनः किंभूतः । नश्यन्त्यत्यु-

ग्र
व्यथया नष्टचेष्टानि सकलानि करणानि कर्मेन्द्रियबुद्धीन्द्रियाणि यस्य । अत एवान्त-

र्मनसि शुचा शोकेन दह्यमानः । एतादृगवस्थमग्रे दृष्ट्वा अविरलं बहु गलद्यद्वाष्पं तेन

पूर्णेक्षणाभिः पूर्णनेत्राभिः सत्पत्नीभिः पतिव्रताभिर्भार्याभिश्चकितचश्यकितम तिशयेन दीनं

लोचनैरीक्ष्यमाणो दृश्यमानः । पुत्रैस्तनयैर्मित्रैः सुहृद्भिः सहजान्थश्च सचिवाञ्श्च तैर्न्धुभि

भृत्यानां वर्गाः समूहास्तैस्तादृगवस्थं दृष्ट्वा आक्रन्दद्भिः पूत्कृत्य विलपद्भिः । करुणकरु-
गै

णै
रतिकरुणैः प्रलापैर्हेतुभिरन्तर्लीनकिंचित्स्मृतित्वात्पीडपड्यमानः । ततः किंचिदन्तर्लीना

स्मृतिर्यस्य स तादृशोऽपि सन्स्वस्थावस्थैर्मीरोगैर्भृशमत्यर्थमशुचिताशङ्किमिभिरपवित्रत्वश-

ङ्किभिः किंचिदन्तर्लीनस्मृतिरपि स देही वैश्मगर्भागृद्रृहान्तरात्रिन्निष्नुरैः कठिनाशयैईठाद्लेन

हस्तपादादि गृहीत्वा कृष्यमाणः । दाहार्थमिति शेषः । यस्मिन्समये मृत्युनान्तकेन कव-

लितं प्ग्रस्तं वपुर्यस्य स तादृशो भीतितिं महासंकटमभ्येति प्राप्नोति तत्र तादृशि समये

ऐश्वरीं परमेश्वरसंबन्धिनीं करुणां विना क इव त्राता पालकः । न कोऽपीत्यर्थः । केवल-

मीश्वरकृपैव तत्र शरणमिति भावः ॥ संदानितकम् ॥
 

 
वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः
 

शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः ।

तथापि प्रत्यग्रं शरणर्[^१]मुपयातं प्रति विभो-

रखण्डो व्यापारो जगति करुणाया विजयते ॥ ३७॥
 

 
वपुःखण्डे महेशितुः शरीरार्धे शैलदुहितुः पार्वत्याः खण्डोऽर्धम् । वामभाग इत्यर्थः ।

प्रभोः शिखण्डे किरीटे खण्डेन्दुरर्धेन्दुः । स्वयमपि स्वामी शंभुः खण्डपरशुः । 'खण्ड:

परशुरस्य जामदग्न्येन सह कुठारविनिमयात्' इति जिनेन्द्रकृतटीकायाम् । तथाप्येव-

मपि सति सर्वथैव खण्डत्वेऽपि सति प्रत्यमंग्रं नवं शरणमुपयातं शरणागतं प्रति विभोः

स्वामिनः परमेशस्य जगति त्रिभुवने करुणाया अखण्डो व्यापारो विजयते सर्वोत्कृष्टो

भवति । सर्वत्र खण्डत्वेऽप्यखण्डैव करुणा शंभोः शरणागतं प्रतीत्यद्भुतमित्यर्थः ॥
 

 
[^
]. 'उपयन्तं' ख.
 
Digitized by Google