This page has not been fully proofread.

१५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
आर्द्रे मनस्युदितमार्तजनोपताप-
संपर्कतोऽथ दृशि कन्दलितं शुभायाम् ।
वाचि क्षणात्कुसुमितं फलितं च कृत्ये
कारुण्यबीजमजरं जयतीन्दुमौलेः ॥ ३२ ॥
 
आर्तजनस्याशरणजनस्योपतापः
 
२४१
 
संतापस्तस्य संपर्काद्विभोर्मनसि कृपयार्द्रे उदितमु-
.......वाच्यभयवाचि क्षणात्कुसुमितं पुष्पितम् ।
 
त्पन्नम् । अथ शुभायां.....
 
पुनः कृत्ये रक्षाकर्मणि फलितं सफलं जातमिन्दुमौलेः श्रीशिवभट्टारकस्य कारुण्यबीजं
कारुण्यमेवाजरमद्भुतं बीजं जयति सर्वोत्कृष्टं भवति ॥
 
अथेदानीं देहिनामन्त्यावस्थां वर्णयन्कविः परमेश्वरकरुणोत्पादकं दीनाक्रन्दनं 'रोगै: '
इत्यादिवृत्तचतुष्टयेनाह-
रोगैरुमैरखिलविगलत्सौष्ठवो नष्टचेष्टः
 
पर्यास्ताङ्गोऽशुचिनि शयने भग्नसर्वाभ्युपायः ।
 
यावज्जीवं विहितमहितं कर्म कर्तव्यमूढः
 
स्मृत्वा स्मृत्वा दलितहृदयः कातरः कांदिशीकः ॥ ३३ ॥
तर्षोत्कर्षात्कलुषपरुषैः कर्मभिः शर्महद्भि-
र्यत्संप्राप्तं कथमपि भृशं क्लेशयित्वा शरीरम् ।
रिक्थग्राहैर्द्रविणमखिलं लुण्ठयमानं तद
 
पश्यन्नश्यत्सकलकरणो दह्यमानः शुचान्तः ॥ ३४ ॥
 
शोकोद्रेकादविरलगलद्वाप्पपूर्णेक्षणाभिः
 
सत्पत्नीभिश्चैकितचकितं लोचनैरीक्ष्यमाणः ।
पुत्रैर्मित्रैः सहजसचिवैर्बन्धुभिर्भृत्यवर्गै
 
राक्रन्दद्भिः करुणकरुणैः पीड्यमानः प्रलापैः ॥ ३९ ॥
स्वस्थावस्थैर्भृशमशुचिताशङ्किभिर्वेश्मगर्भा-
दन्तर्लीनस्मृतिरपि हठान्निष्ठुरैः कृष्यमाणः ।
यस्मिन्काले कवलितवपुर्मृत्युनाभ्येति भीति
 
तत्र त्राता क इव करुणामैश्वरीमन्तरेण ॥ ३६ ॥
 
१. 'कृशमपि' ख. २. 'शुचार्त: ' ख ३. 'चकितचकितैः' ख.
 
.
 
३१
 
(संदानितकम्)
 
Digitized by Google