This page has been fully proofread once and needs a second look.

२४०
 
काव्यमाला ।
 
>
 
करो यमदूतस्तेनेरितः क्षिप्तः कुटिलां वक्रां तद्भुकुटिटिं यमदूत भ्रुकुटिमनुकुर्वन् घनकज्ज-

लराशिसदृशो भुजगः सर्पपाशो यात्रन्न मे कंधरां प्ग्रीवामुपैति तथा कुत्सितकर्मविपाकेन

प्राप्ता वेदना निरये यावन्नोदेति । कठिना मर्मभेदिनी । तथा शमनानुगामिभिर्यमभटैर्ग-

दिता गीरिव परुषा मर्मभेदिनी च यावन्न ममोदेति । हे दयालो, तावत्प्राथम्ये ते तवेयं

करुणातरङ्गिणी कृपानदी ते तव हृदयमर्थाद्धृदयाम्भोधिं यदि न गाहते हे विभो, वद

तदा दुःसहा तापसंपद्येषां ते तादृशानां शरणार्थिनां मादृशां का गतिः । न काचिदि-

त्यर्थः ॥ चक्कलकम् ॥
 

 
न समानसमागमा तथा प्रमदाय प्रमदा यतात्मनाम् ।
 

शिवदा शिवदास्यकृद्यथा स्वदमानस्वदमानघा मतिः ॥ ३० ॥

 
स्वदमानः स्वो निजो दमः शमो यस्याः सा स्वदमानस्वदमा । तथा शिवदा कैव-

ल्यदायिनी । तथा शिवस्य परमेश्वरस्य दास्यं दासभावं करोति तादृशी शिवदास्यकृत् ।

अनघा निरवद्या मतिर्बुद्धिर्यथा यतात्मनां जितेन्द्रियाणां प्रमदाय परानन्दाय भवति

तथा प्रमदा वरकामिनी प्रमदायानन्दाय न भवति । किंभूता प्रमदा । समानो मानसहितः

समागमो यस्याः ॥
 

 
एक: पुरंदरपुरं दरवेल्लितभ्रूः

किंस्विज्जनंगमजनं गमयेन्महर्षिः ।

किं तामसं पदमसंपदमिन्द्रमन्यो
 

धन्योदया भव दया भवतो न चेत्स्यात् ॥ ३१ ॥

 
'दरो भये दरीगुहाल्पार्थेऽत्वव्ययम्' इति मङ्गःखः । दरमीषद्वेल्लिते भ्रुवौ येन स तादृश

एको महर्षिरौचित्यादत्र विश्वामित्रो जनंगमजनं वसिष्ठर्षिशापेन चण्डालीभूतं त्रिशङ्कु
कुं
पुरंदरपुरं स्वर्गं किंस्विद्गमयेत्किं गमयेत् । कथं गमयेदित्यर्थः । अन्यो महर्षिरौचित्यादत्र

गौतम इन्द्रमसंपदमविद्यमानसंपदं विश्रान्तिरहितं तामसं पदं तमोभयं सहस्रभगीभूत-

भवनदं(?) किं गमयेत्तदा कथं प्रापयेत् । तदा कदेत्याह - हे भव शंभो, घन्य उदयो यस्याः

सा दया भवतो यदि न तयोः स्यात् । भवद्दययैव तयोस्तादृशशापानुग्रहशक्तिरासी-

दित्यर्थः । पूर्वेवं त्रिशङ्कुनाम्ना नृपेणारब्धे मखे स्वकीयपुरोहितोऽपि वसिष्ठो मदान्धेन न

निमन्त्रितः। ततो वसिष्ठेन स्वयजमानाय त्रिशङ्कवे जनंगमो भूया इति शापो दत्तः ।

यावदन्येन यज्ञयन्त्रा(?) विश्वामित्रेण स त्रिशङ्कुर्भगवद्दयया वचनात्स्वर्गमारोहित

इत्याख्यायिका तथा पूर्वं गौतमभार्यया सहेन्द्रः संगतः ………। ततो

गौतमभयात्पलाय्य स इन्द्रस्तद्योन्यन्तरं गतः । ततो गौतमः कृतस्नानोऽग्निहोत्रसमये

'इन्द्राय स्वाहा' इत्याहुतिं दत्तवान् । ततो योन्यन्तरात्स इन्द्रो हस्तमाकृष्य निर्गतः ।

गौतमोऽप्यतिक्रुद्ध इन्द्राय सहस्रभगो भूया इति शापमदात् । इन्द्रोऽपि तत्तपोमाहा-

त्म्येन सहस्रभगः संपन्न इत्याख्यायिका ।
 
Digitized by Google