This page has not been fully proofread.

२४०
 
काव्यमाला ।
 
>
 
करो यमदूतस्तेनेरितः क्षिप्तः कुटिलां वक्रां तद्भुकुटि यमदूत भ्रुकुटिमनुकुर्वन् घनकज-
लराशिसदृशो भुजगः सर्पपाशो यात्रन्न मे कंधरां प्रीवामुपैति तथा कुत्सितकर्मविपाकेन
प्राप्ता वेदना निरये यावन्नोदेति । कठिना मर्मभेदिनी । तथा शमनानुगामिभिर्यमभटैर्ग-
दिता गीरिव परुषा मर्मभेदिनी च यावन्न ममोदेति । हे दयालो, तावत्प्राथम्ये ते तवेयं
करुणातरङ्गिणी कृपानदी ते तव हृदयमर्थाद्धृदयाम्भोधिं यदि न गाहते हे विभो, वद
तदा दुःसहा तापसंपयेषां ते तादृशानां शरणार्थिनां मादृशां का गतिः । न काचिदि-
त्यर्थः ॥ चक्कलकम् ॥
 
न समानसमागमा तथा प्रमदाय प्रमदा यतात्मनाम् ।
 
शिवदा शिवदास्यकृद्यथा स्वदमानस्वदमानघा मतिः ॥ ३० ॥
स्वदमानः स्वो निजो दमः शमो यस्याः सा स्वदमानस्वदमा । तथा शिवदा कैव-
ल्यदायिनी । तथा शिवस्य परमेश्वरस्य दास्यं दासभावं करोति तादृशी शिवदास्यकृत् ।
अनघा निरवद्या मतिर्बुद्धिर्यथा यतात्मनां जितेन्द्रियाणां प्रमदाय परानन्दाय भवति
तथा प्रमदा वरकामिनी प्रमदायानन्दाय न भवति । किंभूता प्रमदा । समानो मानसहितः
समागमो यस्याः ॥
 
एक: पुरंदरपुरं दरवेल्लितभ्रूः
किंस्विज्जनंगमजनं गमयेन्महर्षिः ।
किं तामसं पदमसंपदमिन्द्रमन्यो
 
धन्योदया भव दया भवतो न चेत्स्यात् ॥ ३१ ॥
'दरो भये दरीगुहाल्पार्थेऽत्वव्ययम्' इति मङ्गः । दरमीषद्वेल्लिते भ्रुवौ येन स तादृश
एको महर्षिरौचित्यादत्र विश्वामित्रो जनंगमजनं वसिष्ठर्षिशापेन चण्डालीभूतं त्रिशङ्कु
पुरंदरपुरं स्वर्ग किंस्विद्गमयेत्किं गमयेत् । कथं गमयेदित्यर्थः । अन्यो महर्षिरौचित्यादत्र
गौतम इन्द्रमसंपदमविद्यमानसंपदं विश्रान्तिरहितं तामसं पदं तमोभयं सहस्रभगीभूत-
भवनदं(?) किं गमयेत्तदा कथं प्रापयेत् । तदा कदेत्याह - हे भव शंभो, घन्य उदयो यस्याः
सा दया भवतो यदि न तयोः स्यात् । भवद्दययैव तयोस्तादृशशापानुग्रहशक्तिरासी-
दित्यर्थः । पूर्वे त्रिशङ्कुनाम्ना नृपेणारब्धे मखे स्वकीयपुरोहितोऽपि वसिष्ठो मदान्धेन न
निमन्त्रितः। ततो वसिष्ठेन स्वयजमानाय त्रिशङ्कवे जनंगमो भूया इति शापो दत्तः ।
यावदन्येन यज्ञयन्त्रा(?) विश्वामित्रेण स त्रिशङ्कुर्भगवद्दयया वचनात्स्वर्गमारोहित
इत्याख्यायिका तथा पूर्व गौतमभार्यया सहेन्द्रः संगतः । ततो
गौतमभयात्पलाय्य स इन्द्रस्तद्योन्यन्तरं गतः । ततो गौतमः कृतस्नानोऽग्निहोत्रसमये
'इन्द्राय स्वाहा' इत्याहुतिं दत्तवान् । ततो योन्यन्तरात्स इन्द्रो हस्तमाकृष्य निर्गतः ।
गौतमोऽप्यतिक्रुद्ध इन्द्राय सहस्रभगो भूया इति शापमदात् । इन्द्रोऽपि तत्तपोमाहा-
त्म्येन सहस्रभगः संपन्न इत्याख्यायिका ।
 
Digitized by Google