This page has been fully proofread once and needs a second look.

१५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
क्लमजं दृशि यतिन्निमीलनं परमार्थानुभवादुदेति तत् ।

शरणं करुणामुपेयुषां कृतिनां चन्द्रकिरीट तावकीम् ॥ २४ ॥
 

(युगलकम्)
 
२३९
 

 
हे चन्द्रकिरीट चन्द्रमौले शंभो, हे भगवन्, शोकजं जन्मजरामरणत्रासदुःखजातं

यदश्रु समुदेत्युत्पद्यते तदेव तावकीं कृपां शरणं प्राप्नुवतां धन्यानां भक्तजनानां रुचिरा-

नन्दमयं परमानन्दमयं विभाति । तथा भयेन जन्मजराद्युत्पन्नेन यः पुलको रोमाञ्चः

प्रते स एव भक्तिरसाद्भुतविहितः प्रवर्तते प्रकटीभवति । तथा क्लमेन भवमरुभ्रमणज-

स्
वेदेन दृशि यन्निमीलनं संकोचनं स एव परमार्थानुगमात्तत्त्वाभ्यासादुदेति । तव कृपां

शरणं प्राप्नुवतां धन्यानामित्यर्थः । अश्रुपुलकादयः शोकजा आनन्दजाश्च भवन्तीति

विशेषोक्तिः । युगलकम् ॥
 

 
भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे ।
 

करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते ॥ २५ ॥

 
हे उमापते, कालेन कलिकालेन तुरीययुगकालेनाञ्छितो विस्तारितो विग्रहो वैरं

यस्य स तादृशस्य मे मृत्युना कृतो ग्रहो ग्रहणं यस्य स तादृशस्य नरकं निरयं भजतः

सरला साध्वी स्त्रीव भारती वाणी प्रथतां विकासमेतु । तथा नरकङ्कालकृत प्ग्रहस्य न

राणां कङ्कालाः शिरोस्थीनि तेषु कृतो ग्रहो हेवाको येन तस्य । नरकपालधारिण

इत्यर्थः । कलैव कलिका चन्द्रकला तथा लाञ्छितः शोभितो विग्रहो यस्य स ता
दृ
शस्य ते करुणापि कृपापि प्रथतां विकासमेतु । मां दृष्ट्वेत्यर्थः ॥
 

 
भगवन्मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् ।
 

जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥ २६ ॥

 
कुपितान्तककिंकरेरितः कुटिलां तद्भुकुटिं विडम्बयन् ।

न घनाञ्जनपुञ्जसंनिभो भुजगो यावदुपैति कंधराम् ॥ २७ ॥

 
न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना ।

गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥ २८ ॥

 
यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी ।
 

बत दुःसहतापसंपदामितरा का शरणार्थिनां गतिः ॥ २९ ॥

(चक्कलकम् )
 

 
हे भगवञ्शंभो, मदिरायाः सुराया मदेन या उन्मदा प्रमदा वरनारी तस्या अपाङ्ग-

तरङ्गो नेत्रान्तावलोकनं तद्वद्ङ्गुरमस्थिरं जरसा विश्वस्रसया तरसा बलेनावसादितं जीर्णी-

कृतं वपुः । ममेति शेषः । यावदापदं विनाशं नैति । कुपितः कोषोखुक्रोधोद्धुरो योऽन्तककिं-
Digitized by Google