This page has not been fully proofread.

१५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
क्लमजं दृशि यतिमीलनं परमार्थानुभवादुदेति तत् ।
शरणं करुणामुपेयुषां कृतिनां चन्द्रकिरीट तावकीम् ॥ २४ ॥
 
(युगलकम्)
 
२३९
 
हे चन्द्रकिरीट चन्द्रमौले शंभो, हे भगवन्, शोकजं जन्मजरामरणत्रासदुःखजातं
यदश्रु समुदेत्युत्पद्यते तदेव तावक कृपां शरणं प्राप्नुवतां धन्यानां भक्तजनानां रुचिरा-
नन्दमयं परमानन्दमयं विभाति । तथा भयेन जन्मजराद्युत्पन्नेन यः पुलको रोमाञ्चः
प्रयते स एव भक्तिरसाद्भुतविहितः प्रवर्तते प्रकटीभवति । तथा क्लमेन भवमरुभ्रमणज-
वेदेन दृशि यन्निमीलनं संकोचनं स एव परमार्थानुगमात्तत्त्वाभ्यासादुदेति । तव कृपां
शरणं प्राप्नुवतां धन्यानामित्यर्थः । अश्रुपुलकादयः शोकजा आनन्दजाश्च भवन्तीति
विशेषोक्तिः । युगलकम् ॥
 
भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे ।
 
करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते ॥ २५ ॥
हे उमापते, कालेन कलिकालेन तुरीययुगकालेनाञ्छितो विस्तारितो विग्रहो वैरं
यस्य स तादृशस्य मे मृत्युना कृतो ग्रहो ग्रहणं यस्य स तादृशस्य नरकं निरयं भजतः
सरला साध्वी स्त्रीव भारती वाणी प्रथतां विकासमेतु । तथा नरकङ्कालकृत प्रहस्य न
राणां कङ्कालाः शिरोस्थीनि तेषु कृतो ग्रहो हेवाको येन तस्य । नरकपालधारिण
इत्यर्थः । कलैव कलिका चन्द्रकला तथा लाञ्छितः शोभितो विग्रहो यस्य स ताह
शस्य ते करुणापि कृपापि प्रथतां विकासमेतु । मां दृष्ट्वेत्यर्थः ॥
 
भगवन्मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् ।
 
जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥ २६ ॥
कुपितान्तककिंकरेरितः कुटिलां तद्भुकुटिं विडम्बयन् ।
न घनाञ्जनपुञ्जसंनिभो भुजगो यावदुपैति कंधराम् ॥ २७ ॥
न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना ।
गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥ २८ ॥
यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी ।
 
बत दुःसहतापसंपदामितरा का शरणार्थिनां गतिः ॥ २९ ॥
(चकलकम् )
 
हे भगवशंभो, मदिरायाः सुराया मदेन या उन्मदा प्रमदा वरनारी तस्या अपाङ्ग-
तरङ्गो नेत्रान्तावलोकनं तद्वद्धङ्गुरमस्थिरं जरसा विश्वसया तरसा बलेनावसादितं जीर्णी-
कृतं वपुः । ममेति शेषः । यावदापदं विनाशं नैति । कुपितः कोषोखुरो योऽन्तककिं-
Digitized by Google