2023-10-17 12:16:57 by jayusudindra
This page has been fully proofread once and needs a second look.
काव्यमाला ।
मक्रोधयोरेषोऽनुभावः प्रभावः । अनयोः पुनर्नियतं निश्चितं तावकी कृपैव मूलस्य नि
कृन्तने छेदने क्षमा । यथा नरकान्तकारिणो विष्णोरूर्जिता दीप्ता शिशुलीला बाललीला
यमलार्जुनयोस्तरुरूपापन्नयोर्मूलच्छेदकरी बभूव ॥ तिलकम् ॥
न विधिर्निधिलाभसंभृतो न विनोदो मृगनाभिसंभवः ।
न च शारदचन्द्रचन्द्रिका न क
न शिशोरसमञ्जसं वचो न मृगाक्षीपरिरम्भविभ्रमः ।
मधुरा न कवीन्द्रभारती न च साम्राज्यविभूतिजृम्भितम् ॥ २० ॥
न रसायनपानकौतुकं न च शक्रासनवासवासना ।
परिपूरयितुं क्षमेत ते करुणाया हर षोडशीं कलाम् ॥ २१ ॥
(तिलकम्)
है हर, निधेर्लाभेन संभृतो विधिरुपायस्ते तव करुणायाः कृपायाः षोडशीं कलां
षोडशांशमपि पूरयितुं न क्षमेत न शक्नुयात् । एवम
स्तूरिकोद्भवो विनोद आनन्दोऽपि शंभुकृपाषोडशांशमपि पूरयितुं न क्षमेत .........
............। तथा कलं मधुरं कोकिलकण्ठकूजितमपि श्रीशंभुकृपाषोडशांशमपि पू-
रयितुं न क्षमेत । तथा शिशोर्बालस्यासमञ्जसमसंगतं वचो न । मृगाक्ष्याः परिरम्भ
आलिङ्गनं तस्य विभ्रमोऽपि न । तथा कवीन्द्रस्य महाकवेर्भारती वाणी मधुरापि न ।
तथा साम्राज्यविभूतेश्चक्रवर्तिवैभवोल्लासस्य जृम्भितमपि न । तथाजरामरत्वकृन्महौषधि-
रसो रसायनं तस्य पाने कौतुकमपि न । तथा शकस्येन्द्रस्यासनं तत्र वासे वासना इ-
न्द्रासनस्थित्यभिलाषोऽपि श्रीशंभुकृपाषोडशांशमपि पूरयितुं न क्षमः ॥ तिलकम् ॥
सुरभिर्न मम स्पृहास्पदं सुरभिर्दक्षिणमारुतोऽपि वा ।
सुरभिक्षुवितीर्णवाञ्छिता सुरभिर्नो करुणा यथा तव ॥ २२ ॥
हे विभो, यथा तव करुणा मम स्पृहास्पदम् । भवतीति शेषः । तथा सुरभिः [व-
सन्तः] ........... .........। तथा सुरभिः सुगन्धोऽपि दक्षिणमारुतो
मलयमारुतोऽपि न मम स्पृहास्पदम् । तथा सुरा एव भिक्षवस्तेषु वितीर्
ञ्छितं यथेष्टं यया तादृशी सुरभिः सुरभिनामा स्वर्गे कामधुक् च मम न स्पृहावहा ।
'सुरभिः स्त्री कामधेनुः सल्लकी चैव वालुकी । सुरायां स्यात्सुगन्धौ तु मनोज्ञे त्रिषु ना
मधौ ॥' इति मङ्गः ॥
समुदेति यदश्रु शोकजं रुचिरानन्दमयं विभाति तत् ।
पुलकः प्रथते भयेन यः स चमत्कारकृतः प्रवर्तते ॥ २३ ॥
Digitized by Google