This page has been fully proofread once and needs a second look.

१५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
हे नाथ त्रिलोकस्वामिन् मदनाशाकुलितेन मदस्याहंकार स्यान्तरशत्रोर्नाशेनाकु
-
लितं तादृशेन चेतसा चिरं बहुकालं प्रणयेन प्रार्थनया प्रीत्या वा प्रसादिताराधिता

तरुणी प्रत्यप्ग्रा करुणा ते तव हृदि स्थिरं पदं स्थानं कथं न करोति । अपि तु करोत्येव ।

अथ च मदनाशाकुलितेन मदने कामे या आशा तयाकुलितेन मनसा प्रणयेनातिप्रेम-

भरेण चिरं प्रसादिता प्रसन्नीकृता तरुणी षोडशवर्षादुपरि त्रिंशद्वर्षपर्यन्तं तरुणवयस्का

नायकस्य हृदि पदं कथं न धत्त इति श्लेषोक्तिः ॥
 
>
 

 
भुजगा इव चन्दनद्रुमं ग्लपयन्तो विषमा नयन्ति माम् ।

परिहार्यदशामरातयो मदमानप्रमुखा धृतिच्छिदः ॥ १४ ॥
 
२३७
 

 
हे विभो, धृतितिं धैर्यं छिन्दन्तीति तादृशाः तथा विषं गरलं ग्लपयन्तो वमन्तो

भुजगाः सर्पाश्चन्दनद्रुमं यथा परिहार्यदशां त्याज्यावस्थामानयन्ति प्रापयन्ति तथा

धृतितिं धैर्यं सुखं च च्छिन्दन्तीति तादृशा विषमाः कठिना मां ग्लपयन्तो हन्यमानाः

(घ्नन्तः) मदमानमुखा मदश्च मानश्च तौ मुखे येषां तादृशा अरातयः शत्रवः षडान्तरा

मां परिहार्यदशां सर्वैरव जनैस्त्याज्यामवस्थां नयन्ति प्रापयन्ति ।
 

 
करुणामरुणानुजन्मनस्तनुमुच्चैरिव पक्षपातिनीम् ।
 

समुपैमि धृताच्युतश्रियं शरणं भूधरपुत्रिकापतेः ॥ १५ ॥
 

 
उच्चैः पक्षाभ्यां द्वाभ्यां प्रपतति पक्षपातिनी तां तथा घृधृताच्युतश्रियं धृतोऽच्युतो

विष्णुः श्रीर्लक्ष्मीश्च तदङ्कगामिनी यया सा तादृशीमरुणानुजन्मनो गरुडस्य तनुमिव

पक्षपातिनीं पक्षपातः स्नेहो भक्तजनेषु यस्याः सा तादृशीम् । तथा धृताच्युतश्रियं

धृता अच्युतास्खलिता श्रीर्यया तादृशीं भूधरपुत्रिकापतेरुमापतेः करुणां समु-

पैमि प्रपद्ये ॥
 

 
स्फुरितारुणचारुचक्षुषा वपुषा निर्भरघर्मविप्रुषा ।

परुषाशयतामुपेयुषा सरुषो यप्रहरन्ति योषितः ॥ १६ ॥

 
भगवन्दृढबद्धमूलयोर्द्विषतोरेष सहस्रशाखयोः ।

अविषह्यनिपातपीडयोरनुभावः कुसुमेषुरोषयोः ॥ १७ ॥

 
अनयोः करुणैव तावकी नियतं मूलनि[^१]कृन्तनक्षमा ।

यमलार्जुनयोरिवोर्जिता शिशुलीला नरकान्तकारिणः ॥ १८ ॥
 

(तिलकम्)
 

 
स्फुरिते अरुणे चारुणी चक्षुषी यस्य तादृशेन । तथा निर्भरघर्मविप्रुषा घनघर्मवि
बि
न्दुना । परुषाशयतां कर्कशचित्ततां प्राप्तवता । तथा सरुषा सरोषेण वपुषा देहेन यो-

षितो यत्प्रहरन्ति । पुरुषानिति शेषः । हे भगवञ्शंभो, दृढं बद्धं मूलं याभ्यां तयोः ।
 
Digitized by Google