This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
स्याधीनमायत्तं भवति सोऽपि भवानीश्वरस्त्रिजगत्स्वाम्यपि यया करुणया वशवर्तिपदे

निजाधीनत्वपदेऽर्पितः । विधेयो विहित इत्यर्थः । सेयं तव करुणैव सर्वोत्कृष्टत्वेन जयति ॥

 
करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि ।
 

उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥ ९ ॥
 

 
हे भगवन्नैश्वर्यादिषट्कपूर्ण, तव त्रिजगदघीधीशस्य करुणा कृपा निमेषेण त्रिजगदुद्धा-

रकारिणी उमामपि पार्वतीमपि तव जीवितेश्वरीं प्राणाधिकामतिशेते । तस्या अप्यति-

शयं भजत इत्यर्थ: । कुत इत्याह – उमयापर्णया तादृशानन्यसाधारणतपोविशेषक्लिष्टयापि

तव वपुषोऽर्धमेवार्धनारीश्वररूपलेत्वेन हृतम् । एतया पुनः करुणया सकल: सकलवपुस्त्वं

हृतः । नीत इत्यर्थः ॥
 

 

 
करुणा तव शस्यते यया जितकामोऽपि भवान्वशीकृतः ।

इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम् ॥ १० ॥

 
अस्माभिः सा तव करुणा शस्यते स्तूयते । सा केत्याह—यया जितकामोऽपि जि-

तानङ्गोऽपि जितेन्द्रियोऽपि भवांस्त्रिजगदधीशोऽपि वशीकृतः । इदं चान्यदद्भुतम् न केव-

लमियं करुणा त्रिजगदधीशं त्वामेव वशीकुरुते यावदम्बिकामपि त्रिलोकजननीमपि

देवीं विधेयतां निजवश्यतामनयत् ॥
 

 
जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभवता ।
 

धृतमुष्णरुचात्मना च यत्करुणाया महिमा तवेश सः ॥ ११ ॥
 

 
स्वेच्छयोत्पादित जगद्रक्षणायाष्टमूर्तिधरेण अम्बुभुवाग्मिना । 'अद्भ्योऽग्निजतिःजार्तः' इति

श्रुतेः । अभिग्निमूर्तिधरेण । तथा भुवा पृथिव्या । तथाम्भसा जलेन । सितभासा चन्द्र-

मसा । नभसाकाशेन । नभस्वता वायुना । उष्णरुचा सूर्येण । आत्मना प्रकृतिविकृति-

पृथक्स्थितेन यजमानरूपेण च जगत्रैलोक्यं यद्धृतं स महिमा तव करुणाया एव ।

अप्रतिहतशक्तेरित्यर्थः ॥
 

 
अहतप्रसरां प्रसादिनीं सहसापोहिततापसंपदम् ।
 

शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव पावनीम् ॥ १२ ॥
 

 
हे विभो, पावनीं पवित्रीकरणहेतुं तरङ्गिणीं मोहोल्लासवतीमहतप्रसरामनाहतशक्ति

प्रसादिनीमनुग्रहवतीं तथा अपोहिता निःशेषीकृता तापस्याध्यात्मिकादेखि तयस्य
स्त्रितयस्य
संपद्यया सा तादृशीं करुणामेव तरङ्गिणीं नदीं शरणं प्रतिपद्ये । नदी चाप्रतिहतप्रवाहा

प्रसन्नतायुक्ता दूरीकृततापसंपत्पावनी च भवति ॥
 

 
प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा ।
 

तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं पदम् ॥ १३ ॥
 
Digitized by Google