2023-02-23 21:27:38 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
स्याधीनमायत्तं भवति सोऽपि भवानीश्वरस्त्रिजगत्स्वाम्यपि यया करुणया वशवर्तिपदे
निजाधीनत्वपदेऽर्पितः । विधेयो विहित इत्यर्थः । सेयं तव करुणैव सर्वोत्कृष्टत्वेन जयति ॥
करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि ।
उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥ ९ ॥
हे भगवन्नैश्वर्यादिषट्कपूर्ण, तव त्रिजगदघीशस्य करुणा कृपा निमेषेण त्रिजगदुद्धा-
रकारिणी उमामपि पार्वतीमपि तव जीवितेश्वरीं प्राणाधिकामतिशेते । तस्या अप्यति-
शयं भजत इत्यर्थ: । कुत इत्याह – उमयापर्णया तादृशानन्यसाधारणतपोविशेषक्लिष्टयापि
तव वपुषोऽर्धमेवार्धनारीश्वररूपलेन हृतम् । एतया पुनः करुणया सकल: सकलवपुस्त्वं
हृतः । नीत इत्यर्थः ॥
॥
करुणा तव शस्यते यया जितकामोऽपि भवान्वशीकृतः ।
इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम् ॥ १० ॥
अस्माभिः सा तव करुणा शस्यते स्तूयते । सा केत्याह—यया जितकामोऽपि जि-
तानङ्गोऽपि जितेन्द्रियोऽपि भवांस्त्रिजगदधीशोऽपि वशीकृतः । इदं चान्यदद्भुतम् न केव-
लमियं करुणा त्रिजगदधीशं त्वामेव वशीकुरुते यावदम्बिकामपि त्रिलोकजननीमपि
देवीं विधेयतां निजवश्यतामनयत् ॥
जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभवता ।
धृतमुष्णरुचात्मना च यत्करुणाया महिमा तवेश सः ॥ ११ ॥
स्वेच्छयोत्पादित जगद्रक्षणायाष्टमूर्तिधरेण अम्बुभुवाग्मिना । 'अद्भयोऽग्निजतिः' इति
श्रुतेः । अभिमूर्तिधरेण । तथा भुवा पृथिव्या । तथाम्भसा जलेन । सितभासा चन्द्र-
मसा । नभसाकाशेन । नभस्वता वायुना । उष्णरुचा सूर्येण । आत्मना प्रकृतिविकृति-
पृथक्स्थितेन यजमानरूपेण च जगत्रैलोक्यं यद्धृतं स महिमा तव करुणाया एव ।
अप्रतिहतशक्तेरित्यर्थः ॥
अहतप्रसरां प्रसादिनीं सहसापोहिततापसंपदम् ।
शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव पावनीम् ॥ १२ ॥
हे विभो, पावनीं पवित्रीकरणहेतुं तरङ्गिणीं मोहोल्लासवतीमहतप्रसरामनाहतशक्ति
प्रसादिनीमनुग्रहवतीं तथा अपोहिता निःशेषीकृता तापस्याध्यात्मिकादेखि तयस्य
संपद्यया सा तादृशीं करुणामेव तरङ्गिणीं नदीं शरणं प्रतिपद्ये । नदी चाप्रतिहतप्रवाहा
प्रसन्नतायुक्ता दूरीकृततापसंपत्पावनी च भवति ॥
प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा ।
तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं पदम् ॥ १३ ॥
Digitized by Google