This page has been fully proofread once and needs a second look.

१५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२३५
 
वितानामश्रान्तमानन्दमरं तनोति ॥ तिलकम् ॥ दिष्टया प्रपेव तृषितेन मरुप्रचारा-

त्क्लित्रेक्षणेन घनसारशलाकिकेव । छाया तरोरिव परिश्रमिणाध्वगेन तापातुरेण समवापि

महेशभक्तिः ॥' इति । घनसारशलाकिका कर्पूरशलाका नेत्रयोरतिशयेन सुखदा ।

तथा च कस्यापि प्राचीनमहाकवेः कृतिः– 'सुपूरकर्पूरशलाकिका दृशोः' इति ॥

 
करुणां भवतो विकासिनीममलैरीश गुणैरलंकृताम् ।
 

नलिनीमलिनीव भारती भजतीयं मम वल्गुवादिनी ॥ ४ ॥
 

 
हे ईश शंभो विकासिनीं विस्तारवतीममलैर्निर्व्याजैर्गुणैरशरणदीनजनोपकारादि-

भिरलंकृतां शोभितां भवतः करुणां कृपां वल्गुवादिनीयं मम भारती भजति सेवते ।

का कामिव । अलिनी भ्रमरी नलिनीं पद्मिनीमिव । नलिनीमपि किंभूताम् । विकासिनीं

प्रफुल्लाम् । पुनः किंभूताम् । अमलैः स्वच्छैर्गुणैः सूक्ष्मतन्तुभिरलंकृतां भूषिताम् । भ्रमरी

च किंभूता । वल्गुवादिनी मधुरस्वना ॥
 

 
उपलक्ष्य तवान्धकारितां मयि धत्ते पदमन्धकारिता ।

विषमामवलोक्य ते दृशं मम दृष्टिर्विषमत्वमश्नुते ॥ ५ ॥

 
हे विभो, अन्धकस्यासुरविशेषस्यारिरन्धकारिस्तद्भावमन्धकारितां तव वीक्ष्य अन्ध-

कारिताज्ञानरूपा मयि विषये पदं स्थितिं करोति । तथा विषमां त्रित्वाद्विषमसंख्याकां

ते तव दृशमालोक्य ममापि दृष्टिर्विषमत्वमुप्ग्रत्वं भजते । शब्दश्लेषोऽलंकारः ॥
 

 
तव वीक्ष्य वृषाधरीकृतिं घटते मेऽपि वृषाधरीकृतिः ।

धृतवक्रकलत्वमीक्ष्य ते प्रथते वक्रकलत्वमेव मे ॥ ६ ॥
 
है

 
हे
विभो, वृषभस्यारीकृतितिं वाहनत्वात्तव वीक्ष्य ममापि वृषस्य धर्मस्याधरीकृतिर-

धोगतिरस्ति । 'वृषो हि भगवान्धर्मः' इति श्रुतेः । तथा धृता वक्रकला एककलत्वा-

चन्द्रस्य येन सः । तस्य भावं वीक्ष्य ममापि वक्रकलत्वं वक्राः कलाः शिल्पकला

यस्य स तादृशस्तस्य भावस्तत्वमेव प्रथते विस्तारं भजते ॥
 

 
तव वीक्ष्य च भग्नकामतामुदितेयं मम भग्नकामता ।
 

करुणामपि ते समीक्ष्य मे करुणा गीर्न कथं प्रवर्तताम् ॥ ७ ॥
 

 
हे विभो, भग्नो निर्नाशितः कामोऽनङ्गो येन स तादृशस्य भावं तव वीक्ष्य ममापीयं-
भन्नकामता भन्

भग्नकामता भग्
नो विगतः कामो मनोरथो यस्य स तद्भावस्तत्ता ममाप्युदिता । ते तव

करुणामपि त्रिजगदुद्धारकारिणीं समीक्ष्य मे ममापि सा करुणा दीना गीर्वाणी कथं न

प्रवर्तताम् ॥
 

 
ससुरासुरमानुषं जगद्यदधीनं स भवानपीश्वरः ।
 

वशवर्तिपदे ययार्पितो जयतीयं करुणैव तावकी ॥ ८ ॥
 

 
सह सुरैरसुरैर्मानुषेषैश्च विद्यते यत्तत्ससुरासुरमानुषमपि जगत्रिभुवनं यस्य परमेश्वर-
Digitized by Google