This page has been fully proofread once and needs a second look.

१०
 
काव्यमाला ।
 
तयं सदा गिरिसुताकान्तस्य वन्दामहे ॥' तमस्तमोगुण एव ध्वान्तम् । विस्प-

ष्टमन्यत् ॥
 

 
अभयंकरमाश्रितं स्वरूपं दधदुद्दामसमग्रधामयोगम् ।
 

शुचितारकमीश्वरस्य नेत्रत्रितयं शूलशिखात्रयं च वन्दे ॥ २३ ॥

 
अभयंकरमिति । अहमीश्वरस्य नेत्रत्रितयं तथा शूलस्य त्रिशूलस्य शिखात्रयं च

वन्दे नौमि । द्वे अपि विशिनष्टि - किंभूतं नेत्रत्रितयम्, अभयंकरम् । न भयं करोती-

त्यभयंकरम् । 'भयार्तिमेघेषु कृञः' इति स्वमुञ् । एवंभूतं स्वरूपमाश्रितम् । शूलशिखा-

त्रयं च किंभूतम् । अभयम् । अविद्यमानं भयं परेभ्यो भङ्गभयं यस्य । तथा करं कर्म-

भूतं इस्तमाश्रितम् । पुनः किंभूतं नेत्रत्रितयम् । उद्दामान्युद्भटानि यानि समप्ग्राणि

धामानि सूर्येन्दुवहिरूपाणि तैर्योगं दधत् । शूलशिखात्रयं च किंभूतम् । उद्दामानि सम-
प्

ग्
राणि यानि धामानि तेजांसि तैर्योगं दधत् । तथा नेत्रत्रितयं किंभूतम् । शुचितारकम् ।

शुचयस्तारकाः कनीनिकाः । 'तारकाक्ष्णो: कनीनिका' इत्यमरः । यत्र तादृशम् ।

शूलशिखात्रयपक्षे - शुचि निर्मलम् । तारकं तारयति देवगणान्दैत्यरणोदधेरिति तारकं

निस्तारकम् ॥
 

 
मीलहिद्विलोचनस मुद्गसमुद्गताश्रु-

स्त्रोतः स्स्स्त्रुतिस्त्रपितमूलकपोलभागाः ।

देवं शशाङ्कशकलाकलितावतंसं
 

शंसन्ति सन्त इह शंकर शंकरेति ॥ २४ ॥
 

 
मीलदिति । शशाङ्कशकलेन चन्द्रस्खण्डेनाकलितोऽवतंसो यस्य तं चन्द्रखण्डमौलिं

श्रीशिवं सन्तः कृतिनः शंकर शंकरेति स्तुवन्ति । किंभूताः । मीलद्विलोचनेत्यादि ।

मीलन्ति तद्ध्यानेन यानि विलोचनानि तान्येव समुद्राःगाः संपुटकास्तेभ्यः समुद्तं यदश्रु

तस्य स्रोतःप्रवाहस्तेन स्त्रपितं मूलं येषां तादृशाः कपोलमाभागा येषां ते ॥

 
भ्रान्तों Sस्मि वैशसमये समयेऽहमत्र

मिथ्यैव दिग्भ्रमहतो महतोऽपमार्गान् ।

विश्रम्य नन्दनवने नवने शिवस्य
 

खेदस्तु संप्रति समेति स मेऽवसानम् ॥ २५ ॥
 

 
भ्रान्तोऽस्मीति । दिग्भ्रमेण दिब्यो<flag></flag>हेन हतः । एकदा परिचितोऽपि वर्त्मनि विस्मृ

तमार्ग इत्यर्थः । अत्र वैशसमये दुःखमये समये तुरीययुगसमये तारुण्यातिरिक्ते प्रौढत्व-

समये वा महतोऽपमार्गान् अवटवर्त्मनः शिवशास्त्रादन्यशास्त्रोपदेशरूपान्कुमार्गात् मि

थ्यैव मृषैव भ्रान्तोऽस्मि । 'दिक्क्लमहतो' इत्यपि पाठोऽत्र दृश्यते । तत्पक्षे दिक् कर्तृ ।

अस्तु किमित्याह – वैशसमय इत्यादि । अन्यत्प्राग्वत् । क्लमेन खेदेन भवमरुभ्रमणेन
 
Digitized by Google