2023-02-23 21:26:58 by ambuda-bot
This page has not been fully proofread.
१०
काव्यमाला ।
तयं सदा गिरिसुताकान्तस्य वन्दामहे ॥' तमस्तमोगुण एव ध्वान्तम् । विस्प-
ष्टमन्यत् ॥
अभयंकरमाश्रितं स्वरूपं दधदुद्दामसमग्रधामयोगम् ।
शुचितारकमीश्वरस्य नेत्रत्रितयं शूलशिखात्रयं च वन्दे ॥ २३ ॥
अभयंकरमिति । अहमीश्वरस्य नेत्रत्रितयं तथा शूलस्य त्रिशूलस्य शिखात्रयं च
वन्दे नौमि । द्वे अपि विशिनष्टि - किंभूतं नेत्रत्रितयम्, अभयंकरम् । न भयं करोती-
त्यभयंकरम् । 'भयार्तिमेघेषु कृञः' इति स्वमुञ् । एवंभूतं स्वरूपमाश्रितम् । शूलशिखा-
त्रयं च किंभूतम् । अभयम् । अविद्यमानं भयं परेभ्यो भङ्गभयं यस्य । तथा करं कर्म-
भूतं इस्तमाश्रितम् । पुनः किंभूतं नेत्रत्रितयम् । उद्दामान्युद्भटानि यानि समप्राणि
धामानि सूर्येन्दुवहिरूपाणि तैर्योगं दधत् । शूलशिखात्रयं च किंभूतम् । उद्दामानि सम-
प्राणि यानि धामानि तेजांसि तैर्योगं दधत् । तथा नेत्रत्रितयं किंभूतम् । शुचितारकम् ।
शुचयस्तारकाः कनीनिकाः । 'तारकाक्ष्णो: कनीनिका' इत्यमरः । यत्र तादृशम् ।
शूलशिखात्रयपक्षे - शुचि निर्मलम् । तारकं तारयति देवगणान्दैत्यरणोदधेरिति तारकं
निस्तारकम् ॥
मीलहिलोचनस मुद्गसमुद्गताश्रु-
स्त्रोतः स्स्रुतिस्त्रपितमूलकपोलभागाः ।
देवं शशाङ्कशकलाकलितावतंसं
शंसन्ति सन्त इह शंकर शंकरेति ॥ २४ ॥
मीलदिति । शशाङ्कशकलेन चन्द्रस्खण्डेनाकलितोऽवतंसो यस्य तं चन्द्रखण्डमौलिं
श्रीशिवं सन्तः कृतिनः शंकर शंकरेति स्तुवन्ति । किंभूताः । मीलद्विलोचनेत्यादि ।
मीलन्ति तयानेन यानि विलोचनानि तान्येव समुद्राः संपुटकास्तेभ्यः समुद्रतं यदश्रु
तस्य स्रोतःप्रवाहस्तेन त्रपितं मूलं येषां तादृशाः कपोलमागा येषां ते ॥
भ्रान्तों Sस्मि वैशसमये समयेऽहमत्र
मिथ्यैव दिग्भ्रमहतो महतोऽपमार्गान् ।
विश्रम्य नन्दनवने नवने शिवस्य
खेदस्तु संप्रति समेति स मेऽवसानम् ॥ २५ ॥
भ्रान्तोऽस्मीति । दिग्भ्रमेण दिब्योहेन हतः । एकदा परिचितोऽपि वर्त्मनि विस्मृ
तमार्ग इत्यर्थः । अत्र वैशसमये दुःखमये समये तुरीययुगसमये तारुण्यातिरिक्त प्रौढत्व-
समये वा महतोऽपमार्गान् अवटवर्त्मनः शिवशास्त्रादन्यशास्त्रोपदेशरूपान्कुमार्गात् मि
थ्यैव मृषैव भ्रान्तोऽस्मि । 'दिक्कमहतो' इत्यपि पाठोऽत्र दृश्यते । तत्पक्षे दिक् कर्तृ ।
अस्तु किमित्याह – वैशसमय इत्यादि । अन्यत्प्राग्वत् । क्लमेन खेदेन भवमरुभ्रमणेन
Digitized by Google