This page has been fully proofread once and needs a second look.

२३४
 
काव्यमाला ।
 
तिश्च लयो नाशश्च तेषां स्फारोऽवतारस्तत्रोचितं योग्यम् । भासा स्वप्रकाशेन रोचितं

दीप्तम् । कारणानां ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवानां षण्णां कारणं हेतुभूतं परमशि-

वाख्यमीहितमभीष्टं हितं मे मस्ह्यं दिशतु ददात्विति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

हितं नाम चतुर्दशं स्तोत्रम् ।
 

 
पञ्चदशं स्तोत्रम् ।
 

 
अथात: करुणाराधनाख्यं पञ्चदशं स्तोत्रमारभमाण आह-

 
अधुना तपसेव देवतामभियोगेन सरस्वतीमिव ।

सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥ १ ॥

 
प्रतिभामिव काव्यकर्मणा वसुना कीर्तिमिवार्थिगामिना ।

मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र सद्गतिम् ॥ २ ॥

 
करुणां हरिणाङ्कलक्ष्मणः सकलार्थार्पणकल्पवल्लरीम् ।

विपदन्तकरीमुपासितुं स्तुतिलेशेन मनः प्रवर्तते ॥ ३ ॥
 

(तिलकम्)
 

 
सकलपुरुषार्थप्रदानकल्पलतां विपन्नाशकरीं देवतां तपसोपासितुं यथा कश्चित्प्रवर्तते

तथा तादृशीमेव पारमेश्वरीं करुणां स्तुतिलेशेनोपासितुं मम मनः प्रवर्तत इति संबन्धः ।

एवमग्रेऽपि । यथा च कश्चिदभियोगेनाभ्यासेन सरस्वतीमुपासितुं प्रवर्तते, यथा च

सुहृदा समूहेन तन्मुखेन (?) समीहितां लक्ष्मीमुपासितुं प्रवर्तते, यथा च प्रकृष्टा गुणा

दयादानदाक्षिण्यादयो यस्य स तादृशेन गुणेन पाण्डित्येन कश्चित्संसद सभामुपासितुं

प्रवर्तते, यथा काव्यकर्मणा काव्यं निपुणकविकर्मैव कर्म व्यवहारस्तेन प्रतिभां नवन-

वोल्लेखशालिनीं प्रज्ञामुपासितुं कश्चिद्वर्तते यथा चार्थिगामिना सत्पात्रप्रतिपादितेन व-

सुना धनेन कीर्तिमुपासितुं कविश्चित्प्रवर्तते, यथा च शमेन जितेन्द्रियत्वपर्यायेण पुण्येनो-

पार्जितेन सद्गतितिं शोभनां गतिमुपासितुं कश्चित्प्रवर्तते, तथैवाहमप्यधुनेदानीं सकलार्थानां

चतुर्णाणां पुरुषार्थानां धर्मादीनामर्पणं दानं तत्र कल्पवल्लरीं कल्पलतां तथा विपदो

जन्मजरामरणमहात्रासरूपाया अलक्ष्म्या बाह्याया वा नाशकरीं हरिणाङ्कलक्ष्मणश्चन्द्र-

मौलेः श्रीशिवभट्टारकस्य करुणां कृपां स्तुतिलवेनोपासितुं मे मनः प्रवर्तते । तिलकम् ॥

एतदाशयानुसारेण ममापीदं वृत्तचतुष्टयम् - 'प्रभातलेखेव रथाङ्गनाम्नां मल्लीप्रफुल्तेव

मधुव्रतानाम् । दीप्तिः खरांशोरिव पङ्कजानां वृष्टिर्घनोत्थेव दबार्दितानाम् ॥ छायेव

वृक्षस्य सदाध्वगानां शीताम्बुधारेव तृषातुराणाम् । वाणीव साधोः कलिखेदितानां सुधेव

दुर्मृत्युभयाकुलानाम् ॥...
.
............. शंभुस्तुतिस्तत्पदभा-
Digitized by Google