This page has not been fully proofread.

२३४
 
काव्यमाला ।
 
तिश्च लयो नाशश्च तेषां स्फारोऽवतारस्तत्रोचितं योग्यम् । भासा स्वप्रकाशेन रोचितं
दीप्तम् । कारणानां ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवानां षण्णां कारणं हेतुभूतं परमशि-
वाख्यमीहितमभीष्टं हितं मे मस्यं दिशतु ददात्विति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअलौ
हितं नाम चतुर्दशं स्तोत्रम् ।
 
पञ्चदशं स्तोत्रम् ।
 
अथात: करुणाराधनाख्यं पञ्चदशं स्तोत्रमारभमाण आह-
अधुना तपसेव देवतामभियोगेन सरस्वतीमिव ।
सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥ १ ॥
प्रतिभामिव काव्यकर्मणा वसुना कीर्तिमिवार्थिगामिना ।
मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र सद्गतिम् ॥ २ ॥
करुणां हरिणाङ्कलक्ष्मणः सकलार्थार्पणकल्पवल्लरीम् ।
विपदन्तकरीमुपासितुं स्तुतिलेशेन मनः प्रवर्तते ॥ ३ ॥
 
(तिलकम्)
 
सकलपुरुषार्थप्रदानकल्पलतां विपन्नाशकरीं देवतां तपसोपासितुं यथा कश्चित्प्रवर्तते
तथा तादृशीमेव पारमेश्वरीं करुणां स्तुतिलेशेनोपासितुं मम मनः प्रवर्तत इति संबन्धः ।
एवमऽपि । यथा च कश्चिदभियोगेनाभ्यासेन सरस्वतीमुपासितुं प्रवर्तते, यथा च
सुहृदा समूहेन तन्मुखेन (?) समीहितां लक्ष्मीमुपासितुं प्रवर्तते, यथा च प्रकृष्टा गुणा
दयादानदाक्षिण्यादयो यस्य स तादृशेन गुणेन पाण्डित्येन कश्चित्संसद सभामुपासितुं
प्रवर्तते, यथा काव्यकर्मणा काव्यं निपुणकविकर्मैव कर्म व्यवहारस्तेन प्रतिभां नवन-
वोल्लेखशालिनीं प्रज्ञामुपासितुं कश्चिद्वर्तते यथा चार्थिगामिना सत्पात्रप्रतिपादितेन व-
सुना धनेन कीर्तिमुपासितुं कविप्रवर्तते, यथा च शमेन जितेन्द्रियत्वपर्यायेण पुण्येनो-
पार्जितेन सद्गति शोभनां गतिमुपासितुं कश्चित्प्रवर्तते, तथैवाहमप्यधुनेदानीं सकलार्थानां
चतुर्णा पुरुषार्थानां धर्मादीनामर्पणं दानं तत्र कल्पवल्लरीं कल्पलतां तथा विपदो
जन्मजरामरणमहात्रासरूपाया अलक्ष्म्या बाह्याया वा नाशकरीं हरिणाङ्कलक्ष्मणश्चन्द्र-
मौलेः श्रीशिवभट्टारकस्य करुणां कृपां स्तुतिलवेनोपासितुं मे मनः प्रवर्तते । तिलकम् ॥
एतदाशयानुसारेण ममापीदं वृत्तचतुष्टयम् - 'प्रभातलेखेव रथाङ्गनाम्नां मल्लीप्रफुल्तेव
मधुव्रतानाम् । दीप्तिः खरांशोरिव पङ्कजानां वृष्टिर्घनोत्थेव दबार्दितानाम् ॥ छायेव
वृक्षस्य सदाध्वगानां शीताम्बुधारेव तृषातुराणाम् । वाणीव साधोः कलिखेदितानां सुधेव
दुर्मृत्युभयाकुलानाम् ॥...
.............. शंभुस्तुतिस्तत्पदभा-
Digitized by Google