This page has been fully proofread once and needs a second look.

१४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२३३
 
स्यैव नृजन्म मनुष्यजन्मानवद्यं निर्दोषम् । अजातो न जात उपरमो विनाशो यस्या-

स्तादृशी असमानन्दकरी अनन्यसाधारणपरमानन्ददायिनी रमा मोक्षलक्ष्मीश्च समानं

सह मानेन पूजया वर्तते यस्तादृशं न त्यजति ॥
 

एतत्स्तोत्रोपसंहारार्थेथं वृत्तत्रयमाह -
 

 
अतः परं जगति किमस्ति नीरसं यदुक्तमप्यसकृदुदीर्यते वचः ।
 

सहस्रशश्विचिरमपि चर्विता पुनर्नवं नवं स्रवति रसं शिवस्तुतिः ॥ २६ ॥
 

 
असकृत्पुनः पुनरुक्तमपि वचो यत्केनाप्युदीर्यते जगत्यतः परं नीरसं किमस्ति । न

किंचित् । इदं त्वद्भुतमित्याह - सहस्रश इति । सहस्रशः सहस्रवारं चिरमपि बहुकाल-

मपि चर्विता आस्वादिता पुनः शिवस्तुतिः परमेश्वरस्तुतिर्नवं नवं रसं परमानन्द-

रसं स्रवति ॥
 

 
मृत्युं मृत्युंजय जय जगद्धस्मरं भस्मभावं
 

कामं कामं नय नयनजोद्दामधामच्छटाभिः ।

भव्याभ व्याकुलकुलवधूरुत्कयेत्याचरन्तं
 

सत्रासत्राणचण चरितान्यद्भुतानि स्तुमस्त्वाम् ॥ २७ ॥

 
मृत्युं जयतीति मृत्युंजयोऽमृतेशः । तस्य संबोधनं हे मृत्युंजय । किंभूत । सत्रा-

सत्राणचण । सह त्रासेन संसृतिजन्मना वर्तन्ते ये सत्रासा जनास्तेषां त्राणे रक्षणे चणः

प्रख्यातस्तत्संबोधनं तादृश । इत्यनेन प्रकारेणाद्भुतानि कर्माण्याचरन्तं निजभक्तजनां-

श्वासनेनापदानकर्माणि कुर्वन्तं त्वां स्तुमः । इति किमिति । हे मत्सेवक, जगद्धस्मरं

विश्वभक्षकं मृत्युं कालं जय । मदनुग्रहेणेति शेषः । तथा नयनात्स्वनेत्राज्जाता उद्दामा

उद्भटा धामच्छटास्तेजच्छटास्ताभिः कामं निश्चयेन कामं मदनं भस्मभावं नयेति

मुमुक्षं प्रति भव्या आभा दीप्तिर्यस्य तत्संबोधनं हे भव्याभ मत्सेवक, विशेषेणाकुलास्त्व-

द्दर्शनाभिलाषेण याः कुलवध्वस्ता उत्कयोत्कण्ठिताः कुर्विति भक्तं प्रति संबोधनम् ॥

 
यत्तत्सर्गनिसर्गनिर्मितिकरं यद्रावणद्रावण-

व्यापारावसरावसक्तमथ यत्संवर्तसंवर्तकम् ।

स्वाभासं भवसंभवस्थितिलयस्फारोचितं रोचितं
 

भासा कारणकारणं दिशतु तद्धामेहितं मे हितम् ॥ २८ ॥

 
तत्प्रसिद्धं सर्गस्य जगत्सृष्टेनिसर्गतः स्वभावतः स्वातन्त्र्येण निर्मितितिं निर्माण करो -

तीति तादृशं ब्रह्मरूपेण यद्धाम परमं तेजः । तथा रावणस्य दशमुखस्य यद्द्रावणं निश्चेष्टी-

करणं तदेव व्यापारस्तस्यावसरस्तत्रावसक्तं लीनम् । रामरूपविष्णुरूपेणेत्यर्थः ।

यद्धाम भवति । तथा यद्धाम संवर्तस्य प्रलयस्य संवर्तकं निवर्तकं रुद्ररूपेण भवति ।

तद्धाम परमज्योतीरूपं स्वाभासं स्वानुभवैकमानं भवस्य संसारस्य संभव उत्पत्तिः स्थि
 
Digitized by Google