This page has been fully proofread once and needs a second look.

२३२
 
काव्यमाला ।
 
कथमित्याह – यथेत्यादि । सा उक्तिदेवी वाग्देवी यथा मे प्रीतितिं परमानन्दं करोति ।

सा वाग्देवी केत्याह–सेवकानां भक्त्यासक्तजनानां लोकं पालयतीति सेवकलोकपाली

कपाली श्रीशिवभट्टारको यया वाग्देव्यार्च्यते स्तूयते ॥
 

 
भवन्तमाराध्य परार्ध्यवैभवं भवं विधाय द्विषतां पराभवम् ।
 

भवं च जित्वा जहतः पुनर्भवं भवन्ति मुक्ताः पदमाप्य शांभवम् ॥२१॥

 
भक्तजनास्तं भवं श्रीशंभुं भवन्तं परार्ध्यं वैभवं यस्य स तादृशमाराध्य । अत एव

द्विषतां शत्रूणामान्तराणां कामादीनां षण्णां बाह्यानां वा पराभवं विधाय। भवं संसारं

च जित्वा पुनर्भवं पुनरागनरूपं पुनर्जन्म जहतस्त्यजन्तः शांभवं पदमाप्य मुक्ता मुक्ति-
माप

मापन्
ना भवन्ति ॥
 

 
न वंशवृत्तेर्गणयामि तानवं न बन्धुरं कंचन नौमि मानवम् ।
 

नवं तवानन्दितदेवदानवं न वञ्चितोऽहं रचयन्सदा नवम् ॥ २२ ॥
 

 
अहं वंशवृत्तेः कुलस्थितेस्तानवमल्पतां न गणयामि । तथा कंचन बन्धुरं रम्यं

मानवं च न नौमि । हे स्वामिन्, आनन्दिता देवा दानवाश्च येन स तादृशस्तं तव नवं

स्तवं नवं नूतनं रचयन्कुर्वन्विधिना न वश्ञ्चितोऽहम् ॥
 

 
धनंजयाक्षं सकलार्थसाधनं धनंजयाराधितमाधिबाधनम् ।
 

धनं विदित्वा विपदां विशोधनं धनन्ति धन्या विभुमृद्धिवर्धनम् ॥ २३॥

 
'धनंजयौ वहिह्निपार्थीथौ' इति मङ्गःखः । धनंजयोऽभिग्निरक्षिणष्णि यस्य स तादृशस्तम् । सकला-

र्थसाधनं सकलपुरुषार्थकारणम् । तथा धनंजयेनार्जुनेन वैरिजयार्थमाराधितम् । तथा

आधीन्मानसीः पीडा बायतीति तादृशम् । द्धिवर्धनं संपद्वर्धनं विभुं शंभुं धन्या

नन्ति याचन्ते । किं कृत्वा । विपदां संसृतिभयानां विशोधनं धनं शिवस्तुतिरूपं

विदित्वा ॥
 

 
कलापिनः प्रावृषि यद्वदम्बुदध्वनिर्घनानन्दविशङ्कलापिनः ।

कलापिनद्धस्फुटजूटधारिणस्तथामृतं वर्षतु गीः कलापिनः ॥ २४ ॥
 

 
कलापि मधुरस्वरापि कलापिनद्धस्फुटजूटधारिणः कलया चन्द्रकलया पिनद्धो बद्धः

स्फुटबाश्चासौ जूटः कपर्दस्तं धारयतीति तस्य श्रीशिवस्य गीर्वाणी नोऽस्माकममृतं पीयूषं

वर्षतु । कथम् । तद्वत् । तद्वत्कथमित्याह-कलापिन इति । घनेनानन्देन विशङ्कं लपति

भणतीति घनानन्दविशङ्कलापी तादृशस्य कलापिनो मयूरस्यामृतं वारि यद्वदम्बुदध्व.

निर्धनध्वनिर्वर्षति तद्वत् ॥
 

 
नृजन्म तस्यैव भवानवद्यं भवानवद्यन्दवमीभीक्षते यम् ।
 

त्यजत्यजातोपरमा समानं रमासमानन्दकरी न चैनम् ॥ २९ ॥
 

 
हे भव शंभो, दवं संतापमवग्रद्यन्खण्डयन्भवान्विभुर्येयं पुरुषं धन्यमीक्षते प्रसाददृष्ट्या त-
Digitized by Google