This page has been fully proofread once and needs a second look.

१४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२३१
 
शम् । तथा अन्धमज्ञानतमसा । तथा अरिभिः षङ्गिःभिः कामक्रोधादिभिरान्तरैः पोथितो

मदिंतस्तादृशम् । तथा मोघं व्यर्थजन्मानम् । तथा एनसां पापानामोघं प्रवाहमिदंतं प्रा-

प्
तम् । 'इण् गतौ' धातुः । एवंविधमेतं मां तारय । भवोदधेरिति शेषः ॥

 
यं स्वयं स्वरसभैरवै रवैरक्षर क्षपितराक्षसेक्षसे ।
 

मारमार भुवि भासते स ते भानुभानुभरभासुरः सुरः ॥ १७ ॥

 
स्वरसेन भैरवा उप्ग्रास्तादृशे रवैः शब्दैहेंर्हे क्षपितराक्षस क्षपिता राक्षसा देवरिपत्रो
वो
येन तत्संबोधनम् । हे अक्षर । न क्षरति स्वरूपात्प्रचलतीत्यक्षरः । हे मारमार। मारं

कामं मारयतीति मारमारस्तत्संबोधनम्। त्वं यं धन्यं स्वयं प्रसाददृष्टया ईक्षसे त्रिलोक-

यसि स ते तव सुरो देवो भुवि भूमौ भासते । किंभूतः । भानोः सूर्यस्य भानवः कि-

रणास्तेषां भरः समूहस्तद्वद्भासुरः प्रदीप्तः । स देव एव मनुष्यरूपेण भासत इत्यर्थः ॥

 
बाणबाणकृतपूजनैर्जनैरादरादघटि यैस्तव स्तवः ।
 

वास्तवास्तव त एव तावता बन्दिवन्दितयशोगणा गणाः ॥ १८ ॥

 
हे विभो, बाणैर्षाबाणाख्यकुसुमैर्दासीकुरण्ट इति ख्यातैर्षाणे जागेश्वरप्रतिमाख्ये सूक्ष्म-

लिङ्गे कृतं पूजनं यैस्तादृशैर्जनैर्यैर्धन्यैरादरात्तव स्तवोऽघटि अकारि तावता तावतैव

जनविधिना वास्तवा वस्तुभूताः सारभूता बन्दिभिः स्तुतिपाठ कैर्वन्दितः स्तुतो यशोग-

णो येषां ते तादृशा गणाः प्रमथास्तवानुचरा भवन्ति । 'बाणो बलिसुते शरे । देवभेदे

स्त्रियां वाचि द्वयोर्दासीकुरण्टके' इति मङ्गःखः
 

 
त्वां सतामरसवासवा सवाज्ञातदुर्गमगमागमागमाः ।
 

अर्चयन्ति सदिनं दिनंदिनं गीर्भिरम्बरसदः सदःसदः ॥ १९ ॥
 

 
अम्बरसदः सदः सदोऽम्बरसदां देवानां सदसि सभायां सीदन्ति तिष्ठन्ति तादृशा

देवास्त्वां सदिनं सञ्शोभन श्वासाविनः स्वामी तं सदिनं दिनंदिनं प्रतिदिनमर्चयन्ति

स्तुवन्ति । काभिः । गीर्भिर्वाणीभिः । 'इनः सूर्ये प्रभौ' इत्यमरः । किंभूता देवाः । स-

तामरसवासवासवाः । सह तामरसेन पद्मेन वर्तते यः स तादृशो वासवस्येन्द्रस्यासवो

दिव्यौषधिरस इन्द्रोचित आसवो येषां ते । 'वासवासनाः' इत्यपपाठः । पादान्ते वर्णयु-

गलकत्रयस्य समत्वे सति प्रथमपादे तदभावेन यमकोच्छेदात् । पुनः किंभूताः । गम-

श्याचागमश्च गमागमौ । दुर्गमौ गमागमौ येषां ते तादृशाः । ज्ञाता निर्णीता दुर्गमगमागमा

आगमाः शास्त्राणि यैस्ते तादृशाः ॥
 

 
न मे तथा प्रीतिमनेकपाली करोति नो वा दयिताङ्कपाली ।
 

यथोक्तिदेवी स विभुः कपाली ययार्च्यते सेवकलोकपाली ॥ २० ॥
 

 
अनेकपानां हस्तिनामाली पकिङ्क्तिरनेकपाली करिघटा तथा मे प्रीतिं न करोति ।

तथा दयितायाः प्रियतमाया अङ्कपाली आलिङ्गनमपि तथा मे प्रीतितिं न करोति । तथा
 
Digitized by Google