2023-02-23 21:27:37 by ambuda-bot
This page has not been fully proofread.
१४ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
२३१
शम् । तथा अन्धमज्ञानतमसा । तथा अरिभिः षङ्गिः कामक्रोधादिभिरान्तरैः पोथितो
मदिंतस्तादृशम् । तथा मोघं व्यर्थजन्मानम् । तथा एनसां पापानामोघं प्रवाहमिदं प्रा-
तम् । 'इण् गतौ' धातुः । एवंविधमेतं मां तारय । भवोदधेरिति शेषः ॥
यं स्वयं स्वरसभैरवै रवैरक्षर क्षपितराक्षसेक्षसे ।
मारमार भुवि भासते स ते भानुभानुभरभासुरः सुरः ॥ १७ ॥
स्वरसेन भैरवा उप्रास्तादृशे रवैः शब्दैहें क्षपितराक्षस क्षपिता राक्षसा देवरिपत्रो
येन तत्संबोधनम् । हे अक्षर । न क्षरति स्वरूपात्प्रचलतीत्यक्षरः । हे मारमार। मारं
कामं मारयतीति मारमारस्तत्संबोधनम्। त्वं यं धन्यं स्वयं प्रसाददृष्टया ईक्षसे त्रिलोक-
यसि स ते तव सुरो देवो भुवि भूमौ भासते । किंभूतः । भानोः सूर्यस्य भानवः कि-
रणास्तेषां भरः समूहस्तद्वद्भासुरः प्रदीप्तः । स देव एव मनुष्यरूपेण भासत इत्यर्थः ॥
बाणबाणकृतपूजनैर्जनैरादरादघटि यैस्तव स्तवः ।
वास्तवास्तव त एव तावता बन्दिवन्दितयशोगणा गणाः ॥ १८ ॥
हे विभो, बाणैर्षाणाख्यकुसुमैर्दासीकुरण्ट इति ख्यातैर्षाणे जागेश्वरप्रतिमाख्ये सूक्ष्म-
लिङ्गे कृतं पूजनं यैस्तादृशैर्जनैयैर्धन्यैरादरात्तव स्तवोऽघटि अकारि तावता तावतैव
जनविधिना वास्तवा वस्तुभूताः सारभूता बन्दिभिः स्तुतिपाठ कैर्वन्दितः स्तुतो यशोग-
णो येषां ते तादृशा गणाः प्रमथास्तवानुचरा भवन्ति । 'बाणो बलिसुते शरे । देवभेदे
स्त्रियां वाचि द्वयोर्दासीकुरण्टके' इति मङ्गः ॥
त्वां सतामरसवासवा सवाज्ञातदुर्गमगमागमागमाः ।
अर्चयन्ति सदिनं दिनंदिनं गीर्भिरम्बरसदः सदःसदः ॥ १९ ॥
अम्बरसदः सदः सदोऽम्बरसदां देवानां सदसि सभायां सीदन्ति तिष्ठन्ति तादृशा
देवास्त्वां सदिनं सञ्शोभन श्वासाविनः स्वामी तं सदिनं दिनंदिनं प्रतिदिनमर्चयन्ति
स्तुवन्ति । काभिः । गीर्भिर्वाणीभिः । 'इनः सूर्ये प्रभौ' इत्यमरः । किंभूता देवाः । स-
तामरसवासवासवाः । सह तामरसेन पद्मेन वर्तते यः स तादृशो वासवस्येन्द्रस्यासवो
दिव्यौषधिरस इन्द्रोचित आसवो येषां ते । 'वासवासनाः' इत्यपपाठः । पादान्ते वर्णयु-
गलकत्रयस्य समत्वे सति प्रथमपादे तदभावेन यमकोच्छेदात् । पुनः किंभूताः । गम-
श्यागमश्च गमागमौ । दुर्गमौ गमागमौ येषां ते तादृशाः । ज्ञाता निर्णीता दुर्गमगमागमा
आगमाः शास्त्राणि यैस्ते तादृशाः ॥
न मे तथा प्रीतिमनेकपाली करोति नो वा दयिताङ्कपाली ।
यथोक्तिदेवी स विभुः कपाली ययार्च्यते सेवकलोकपाली ॥ २० ॥
अनेकपानां हस्तिनामाली पकिरनेकपाली करिघटा तथा मे प्रीतिं न करोति ।
तथा दयितायाः प्रियतमाया अङ्कपाली आलिङ्गनमपि तथा मे प्रीति न करोति । तथा
Digitized by Google