2023-02-23 21:27:37 by ambuda-bot
This page has not been fully proofread.
२३०
काव्यमाला ।
यत्तु निर्जरतरङ्गिणीतटे सौहृदं हरिणबालकैः समम् ।
भूभृतां च तृणवद्विलोकनं श्रीरियं भव भवत्प्रसादतः ॥ १२ ॥
तु पक्षान्तरे । निर्जरत रङ्गिणीतटे देवनदीतटे कस्यचिद्धन्यस्य हरिणशावकैः समं
वने यत्सौहृदमेकत्र निवाससौख्यं भूभृतां राज्ञामुपरि च तृणवत्सावहेलं यद्विलोकनमि-
यमद्भुता श्रीः संपत्तिः पूर्वोदित विडम्बनारूपसंपत्तेः परमानन्ददायिनी हे भव, भवत्प्र-
सादादेव भवति ॥
त्वामुपेत्य शरणं महेश्वरं देव निःशरण एव चेदहम् ।
दोष एष मम जाह्नवीजले तर्षुलो हि शफरः स्वदुष्कृतैः ॥ १३ ॥
हे नाथ शंभो, त्वां त्रिलोकनाथं महेश्वरं शरणमनाथदीनजनत्रातारमुपेत्य लब्ध्वा
चेद्यद्यहं मन्दभाग्यो निःशरण एव विमुखो व्रजामि स एष दोषो ममैव मन्दभाग्याना-
मित्यर्थ: । दृष्टं चैतत् । हि यस्मात्कारणाज्जाह्नवी जले गङ्गाजले शफरो मत्स्यस्तर्षुलस्त-
षितः स्वदुष्कृतैरेव भवति ॥
गद्गदोद्गतगिरश्चिरस्थिरप्रेमहेमनिकषोपलोपमम् ।
शंसतः शिवशिवेति शांभवं नाम कामपि दशां प्रशास्ति मे ॥१४॥
गद्गदा हर्षेण स्खलितपदा उता गोर्वाणो यस्य स तादृशस्य शंसतः स्तुवतो मम
चिरं स्थिरं यत्प्रेम श्रीशिवभक्तिविषयं तदेव हेम सुवर्ण तस्य निकषोपलतुल्यं शिवशि-
वेति शांभवं नाम कामप्यनिर्वाच्यां परानन्दामृतरसाप्लाविततनुमयीं प्रशस्ति ददाति ॥
वारि वारितभवार्ति मूर्ध्नि ते भाति भातिधवले हिमत्विषः ।
तेन ते नतिमिमो दवच्छिदे देहि देहिषु करावलम्बनम् ॥ १५ ॥
हे विभो, हिमत्विषश्चन्द्रस्य मौलिस्थस्य भातिधवले भया दोत्यातिधवलेऽतिस्वच्छे
तव मूर्ध्नि वारि गङ्गाजलं भाति । किंभूतम् । वारितभवार्ति वारिता दूरीकृता भवार्ति-
र्जन्मजगमरणत्रासरूपा आर्तिर्येन तत् । तेन हेतुना दवः संतापः । 'टु दु उपतापे-
धातुः । दवस्य भवमरुभ्रमणजसंतापस्य च्छित्तस्यै नति प्रणति वयमिमः प्राप्नुमः । 'इण्
गतौ' धातुः । हे स्वामिन् देहिषु प्राणिषु मादृशेषु करावलम्बनं हस्तालम्बं देहि ॥
मूढमूढविपदं पदं शुचामन्धमन्धकरिपोऽरिपोथितम् ।
मोघमोघमितमेतमेनसां मां तमान्तकरतार तारय ॥ १६ ॥
अन्धकस्यासुरविशेषस्य रिपुस्तत्संबोधनं हे अन्धकरिपो । हे तमान्तकरतार । त
माया रात्रेरन्तं करोतीति तमान्तकरः सूर्यः स एव तारायां कनीनिकायां यस्य स
तत्संबोधनम् । मूढं मोहार्दितं तथा ऊढा धारिता विपजन्मजरामृतिरूपा येन स ताह-
१. 'स्थित' क.
Digitized by Google