This page has not been fully proofread.

१४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
मस्तै स्त्रिभिरदितस्य पीडितस्य मे हे नाथ, ते त्रयोऽपि वहयादयो मदीयव्याभित्रयाप्रती-
काराच्चित्रलिखिता इवाकिंचित्करा इव स्थिताः । मदभाग्यादिति शेषः ॥
 
संभ्रमभ्रमदमन्दमन्दरक्षीरनीरधिगभीरया गिरा ।
त्रातुमर्हसि कृतान्तकिंकरैर्मामशर्मभिरभिद्रुतं
 
द्रुतम् ॥ ७ ॥
 
संभ्रमेण वेगेन भ्रमन्नमन्दो मन्दरो मन्थाद्रिर्यस्मिन्स चासौ क्षीरनीरधिः क्षीराब्धि-
स्तद्वद्गमीरया गिरा वाण्या अशर्मभिरकल्याणकारिभिः कृतान्त किंकरैर्यमदूतैरभिद्रुतं
विहितसमीपागमनं द्रुतं शीघ्रं मां त्रातुमर्हसि ॥
 
कालकिंकरकरान्तरस्फुरद्भोगभोगिपरिणद्धकंधरम् ।
 
अन्तरेण भवदीयहुंकृतिं नाथ मोचयितुमुत्सहेत कः ॥ ८ ॥
 
हे नाथ शंभो, कालकिंकराणां यमदूतानां करान्तरे स्फुरन्भोगः कायो यस्य स ता
दृशो यो भोगी सर्पस्तेन परिणद्धा वलिता कंधरा ग्रीवा यस्य स तादृशस्तं महासंकटप-
तितं पुरुषं मोचयितुं भवदीयहुंकृति दूतान्प्रति विहितं हुंकारमन्तरेण क उत्सहेत कः
क्षमेत । न कोऽपीत्यर्थः । एतद्वृत्तानुसारेण ममापीदं वृत्तम्- 'देवाः सन्तु सहस्रशः क
मलभूकंसारिमुख्याः पुरो विश्वाभीप्सितदान कल्पतरवो भक्त्यन्वितानां नृणाम् । क्रो-
धाक्रान्तललाटलक्ष्मविषमभ्रूभङ्गसंतर्जनत्रस्तानां परिपालनैकनिरतो मृत्युंजयानापरः ॥'
उत्कटञ्जुकुटिभीमदर्शनद्वाःस्थहुंकृतिखलीकृतात्मभिः ।
 
द्वारि यः क्षितिभुजां पराभवः सह्यते द्रविणलेशतृष्णया ॥ ९ ॥
स त्वदायतनदेहलीतले पुष्पपात्रकरपत्रिकाकरम् ।
कंचिदेव भवदर्चनोत्सुकं चन्द्रशेखर करोति कातरम् ॥१०॥ (युगलकम्)
 
-२२९
 
हे चन्द्रमौले, उत्कटा या भ्रुकुटिस्तया भीमदर्शना ये द्वाःस्था याष्टीकास्तैः खली-
कृत आत्मा येषां तैः पुरुषैः क्षितिभुजां राज्ञां द्वारि द्रविणलेशतृष्णया धनलवतृषा यः
पराभवः सत्यते स पराभवस्त्वदायतने त्वदीयदेवालये या देहली तस्यास्तलं बुधं तत्र
भवदर्चने भवत्पूजायामुत्सुकं कंचिदेव विरलं धन्यं पुष्पपात्रं कुसुमपात्रं च करपत्रिका
गलन्तिका च पाणौ यस्य स तादृशं सन्तं कातरं भवद्दर्शनावसरप्राप्तिः करोति ॥
 
अन्तरेण भवदसेिवनं देव केवलमियं विडम्बना ।
 
यन्नृणां कमलिनीदलस्खलन्नीरशीकरचला विभूतयः ॥ ११ ॥
 
हे देव शंभो, कमलिनीदले पद्मपत्रे स्खलद्यन्नीरं जलं तस्य शीकराः कणास्तद्वचला
विभूतयः संपदो नृणां यद्भवन्ति सेयं नृणां केवलं विडम्बना भवति । किमन्तरेण भव-
दजिसेवनं भवत्पादकमलसेवनमन्तरेण विना ॥
 
१. 'भोगिभोग' ख. २. 'भव दर्शनोत्सुकं' ख.
 
Digitized by Google