This page has been fully proofread once and needs a second look.

२२८
 
काव्यमाला ।
 
हे भव शिवादिक्षित्यन्तोत्पादक, यः पुरुषो धन्यो भवन्नवेषु भवत्स्तुतिषु भक्त्या

निर्भरं पूर्णं गभीरं च यद्भारतीवैभवं वागुलासो यस्य स तादृशो भवति तस्य धन्यस्य

वासवासनपरिग्रहग्रह इन्द्रासनग्रहणहेवाकः शुष्कशष्पमिव शुष्कतृणप्रायो भासते । नि-

तरामवहेलास्पदं भवतीत्यर्थः ॥
 

 
उल्लसत्पुलकलाञ्छितं वपुर्बाप्पपूरितपुटे विलोचने ।
 

गद्गदा हरहरेति भारती संभवन्ति भवभक्तिशालिनाम् ॥ ३ ॥
 

 
भवस्य श्रीशंभोर्भक्त्या शालन्त इति भवभक्तिशालिनस्तेषामेतानि वस्तून्येवंविधानि

संभवन्ति । कानीत्याह-वपुर्लोचने भारती च । वपुः किंभूतम् । उल्लसत्पुलकलाञ्छित

मुल्लसद्भिरतिप्रमोदेन पुलकै रोमाञ्चैन्छितं संभवति । लोचने किंभूते। बाप्पेण हर्षा-

श्रुणा पूरितौ पुटौ ययोस्ते तादृशे संभवतः । भारती च किंभूता । हरहरेति गद्गदा मुहुः

स्खलिताक्षरा ॥
 

 
नीलकण्ठ तरुणेन्दुशेखर त्र्यम्बक त्रिनयनेति भक्तितः ।

गद्गदं निगदतस्तृणोपमं हेमपूर्णमखिलं महीतलम् ॥ ४ ॥
 

 
हे नीलकण्ठ । तरुणेन्दुशेखर बालेन्दुमौले । त्रीण्यम्बकानि नेत्राणि यस्य स त्र्य-

म्कः । त्रयाणां लोकानामम्बकः पितेत्यागमः । 'द्यौर्भूमिरापस्तिस्रोऽम्बा अस्य' इति

भारते । तत्संबोधनं हे त्र्यम्बक । हे त्रिनयन। मां पाहीति शेषः । इति भक्तितो ग

द्दं स्खलत्पदं निगदतो धन्यस्य कस्याप्यखिलमपि महीतलं हेमपूर्णमपि तृणोपमं शु-

ष्क
तृणप्रायम् । अतीवावहेलास्पदमित्यर्थः ॥ एतदनुसारेण ममापीदमेकं वृत्तम् – 'शंभो

जगन्नाथ दयाम्बुराशे दीनं जनं पाहि महेश्वरेति । संसारकाकोदरदष्ट लोकसंजीवने मन्त्र-

वरः प्रदिष्टः ॥' इति ॥
 

 
अन्तकभ्रुकुटिमीतिविह्वलश्वेतसान्त्वनविधौ बभूव यत् ।
 

मां प्रति प्रतिपदं कर्थितं तत्त्क्व संप्रति कृपामृतं तव ॥ ९ ॥

 
अन्तकस्य भ्रुकुटिस्ततो भीत्या विह्वलो यः श्वेतः श्वेतनृपस्तस्य सान्त्वनविधौ मा
मै

भै
षीरित्याश्वासनविधौ यत्तव कृपामृतं बभूव तदेव कृपामृतं करुणामृतवाक्यं मां प्रति

प्रतिपदं कदर्थितं व्यथितं (स्खलद्वहिर्निःसरत्) संप्रतीदानीं क्व । गतमिति शेषः ॥
 

 
वह्निशीतकरघर्मरश्मयो लोचनत्रितयवर्तिनस्तव ।
 

शीततापतिमिरार्दितस्य मे नाथ चित्रलिखिता इव स्थिताः ॥ ६ ॥

 
हे नाथ, वह्निरग्निः । शीतकरश्चन्द्रः । घर्मरश्मिः सूर्यश्चेति त्रयस्तव लोचनानां भा-

लस्थवामदक्षिणानां त्रितये वर्तन्ते तादृशाः सन्ति जरामरणत्रासमहावायुना शीतम् ।

आध्यात्मिकाधिदैविकाधिभौतिक भेदेन त्रिविधस्ताप एव तापः । तिमिरमज्ञानरूपं त
 
Digitized by Google