This page has not been fully proofread.

२२८
 
काव्यमाला ।
 
हे भव शिवादिक्षित्यन्तोत्पादक, यः पुरुषो धन्यो भवन्नवेषु भवत्स्तुतिषु भक्त्या
निर्भरं पूर्ण गभीरं च यद्भारतीवैभवं वागुलासो यस्य स तादृशो भवति तस्य धन्यस्य
वासवासनपरिग्रहग्रह इन्द्रासनग्रहणहेवाकः शुष्कशष्पमिव शुष्कतृणप्रायो भासते । नि-
तरामवहेलास्पदं भवतीत्यर्थः ॥
 
उल्लसत्पुलकलाञ्छितं वपुर्बाप्पपूरितपुटे विलोचने ।
 
गद्गदा हरहरेति भारती संभवन्ति भवभक्तिशालिनाम् ॥ ३ ॥
 
भवस्य श्रीशंभोर्भक्त्या शालन्त इति भवभक्तिशालिनस्तेषामेतानि वस्तून्येवंविधानि
संभवन्ति । कानीत्याह-वपुर्लोचने भारती च । वपुः किंभूतम् । उल्लसत्पुलकलाञ्छित
मुल्लसद्भिरतिप्रमोदेन पुलकै रोमान्छितं संभवति । लोचने किंभूते। बाप्पेण हर्षा-
श्रुणा पूरितौ पुटौ ययोस्ते तादृशे संभवतः । भारती च किंभूता । हरहरेति गद्गदा मुहुः
स्खलिताक्षरा ॥
 
नीलकण्ठ तरुणेन्दुशेखर त्र्यम्बक त्रिनयनेति भक्तितः ।
गद्गदं निगदतस्तृणोपमं हेमपूर्णमखिलं महीतलम् ॥ ४ ॥
 
हे नीलकण्ठ । तरुणेन्दुशेखर बालेन्दुमौले । त्रीण्यम्बकानि नेत्राणि यस्य स त्र्य-
म्वकः । त्रयाणां लोकानामम्बकः पितेत्यागमः । 'यौर्भूमिरापस्तिस्रोऽम्बा अस्य' इति
भारते । तत्संबोधनं हे त्र्यम्बक । हे त्रिनयन। मां पाहीति शेषः । इति भक्तितो ग
द्वदं स्खलत्पदं निगदतो धन्यस्य कस्याप्यखिलमपि महीतलं हेमपूर्णमपि तृणोपमं शु-
ऋतृणप्रायम् । अतीवावहेलास्पदमित्यर्थः ॥ एतदनुसारेण ममापीदमेकं वृत्तम् – 'शंभो
जगन्नाथ दयाम्बुराशे दीनं जनं पाहि महेश्वरेति । संसारकाकोदरदष्ट लोकसंजीवने मन्त्र-
वरः प्रदिष्टः ॥' इति ॥
 
अन्तकभ्रुकुटिमीतिविह्वलश्वेतसान्त्वनविधौ बभूव यत् ।
 
मां प्रति प्रतिपदं कर्थितं तत्त्व संप्रति कृपामृतं तव ॥ ९ ॥
अन्तकस्य भ्रुकुटिस्ततो भीत्या विहलो यः श्वेतः श्वेतनृपस्तस्य सान्त्वनविधौ मा
मैषीरित्याश्वासनविधौ यत्तव कृपामृतं बभूव तदेव कृपामृतं करुणामृतवाक्यं मां प्रति
प्रतिपदं कदर्थितं व्यथितं (स्खलद्वहिनिःसरत्) संप्रतीदानीं क । गतमिति शेषः ॥
 
वह्निशीतकरघर्मरश्मयो लोचनत्रितयवर्तिनस्तव ।
 
शीततापतिमिरार्दितस्य मे नाथ चित्रलिखिता इव स्थिताः ॥ ६ ॥
हे नाथ, वह्निरग्निः । शीतकरश्चन्द्रः । घर्मरश्मिः सूर्यश्चेति त्रयस्तव लोचनानां भा-
लस्थवामदक्षिणानां त्रितये वर्तन्ते तादृशाः सन्ति जरामरणत्रासमहावायुना शीतम् ।
आध्यात्मिकाधिदैविकाधिभौतिक भेदेन त्रिविधस्ताप एव तापः । तिमिरमज्ञानरूपं त
 
Digitized by Google