This page has been fully proofread once and needs a second look.

१४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
अथात एतत्स्तोत्रस्योपसंहारार्थं वृत्तद्वयमाह-

 
श्रीर्देवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः ।

सा यस्मादजनि तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥४२॥
 

 
यया लक्ष्म्या कटाक्षितानां सकलो यः समीहितार्थस्तस्य सिद्धिर्हस्तस्था भवति सा
 

देवी श्रीलक्ष्मोर्जयति सर्वोत्कृष्टा भवति । सा तादृश्यपि लक्ष्मीर्यस्मात्समुद्रः त्क्षीरोदधेर्जाता

मब्धिमध्प्यर्भकाय बालायोपमन्यत्रेवे यो त्रिविभुर्दयालुः प्रादात्स देवः परमशिवः कथमिव

वर्ण्यते व्याख्यायते । ब्रह्मादिभिरपि वर्णयितुम शक्यत्वादित्यर्थः ॥

 
नार्हत्यमन्दरयमन्दरयत्नलब्धा
 

स्पर्धीधां सुधा न वसुधानवधिश्च यस्य ।

सोऽयं नवः शिवनवः [^१]शिवतातयेऽस्तु
 
"
 
२२७
 

विद्वत्सभाजनसभाजनभाजनं वः ॥ ४३ ॥
 

 
अमन्दरयो महावेगो यो मन्दरो मन्थाद्रिस्तस्य यत्नेन लब्धा सुधा पीयूत्रमपि त

थानवधिरनन्ता वसुधा भूमिरपि यस्य नवस्य स्तवस्य स्पर्धाधां साम्यं मार्हति नवो नूतनः

सोऽयं शिवनवः शिवस्य नवः स्तवः प्रभुप्रसादनाख्यो वो युष्माकं शिवतातये शिवस्य

तातिस्तस्यै । कल्याणविस्तारायेत्यर्थः । अस्तु । नवः स्तवः किंभूतः । विदुषां या सभा

गोष्टी तस्यां जनस्य सभाजनं प्रीतिदर्शनं तस्य भाजनं पात्रमिति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुप ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

प्रभुप्रसादनं नाम त्रयोदशं स्तोत्रम् ।
 

 
चतुर्दशं स्तोत्रम् ।
 

 
अथातो हिताख्यं स्तोत्रं चतुर्दशमारभमाण आह-
-
 

 
येन नेत्रकरशेखरस्पृशा हन्ति सन्तमसमन्तरीश्वरः ।
 

ऐन्दवं दवथुहारि हारि तद्धाम कामदमदभ्रमस्तु वः ॥ १ ॥
 

 
नेत्रं वामनेत्रं च करो वामकरश्च शेखरं मुकुटं च तानि स्पृशतीति नेत्रकरशेखर-

स्पृक् तादृशेन येन चन्द्र तेजसान्तर्मनसि स्थितं सन्तमसमझानाख्यमोमीश्वरः श्रीशिवो

इन्ति । भक्तजनस्येति शेषः । हारि मनोहरं दवथुहारि संतापहरं तदैन्दवं चान्द्रं धामा-

दभ्रमनल्पं कृत्वा वो युष्माकं कामदमी हितप्रदमस्तु ।
 

 
भक्ति निर्भरगभीरभारतीवैभवो भव भवन्नवेषु यः ।

शुष्कशष्पमिव तस्य भासते वासवासनपरिग्रहग्रहः ॥ २ ॥
 

 
[^
]. 'शिवताप्तये' ख.
 
Digitized by Google