This page has not been fully proofread.

१४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
अथात एतत्स्तोत्रस्योपसंहारार्थ वृत्तद्वयमाह-
श्रीदेवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः ।
सा यस्मादजनि तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥४२॥
 
यया लक्ष्म्या कटाक्षितानां सकलो यः समीहितार्थस्तस्य सिद्धिस्तस्था भवति सा
 
देवी श्रीलक्ष्मोर्जयति सर्वोत्कृष्टा भवति । सा तादृश्यपि लक्ष्मीर्यस्मात्समुद्रः क्षीरोदधेर्जाता
समब्धिमध्यर्भकाय बालायोपमन्यत्रे यो त्रिभुर्दयालुः प्रादात्स देवः परमशिवः कथमिव
वर्ण्यते व्याख्यायते । ब्रह्मादिभिरपि वर्णयितुम शक्यत्वादित्यर्थः ॥
नार्हत्यमन्दरयमन्दरयनलब्धा
 
स्पर्धी सुधा न वसुधानवधिश्च यस्य ।
सोऽयं नवः शिवनवः शिवतातयेऽस्तु
 
"
 
२२७
 
विद्वत्सभाजनसभाजनभाजनं वः ॥ ४३ ॥
 
अमन्दरयो महावेगो यो मन्दरो मन्थाद्रिस्तस्य यत्नेन लब्धा सुधा पीयूत्रमपि त
थानवधिरनन्ता वसुधा भूमिरपि यस्य नवस्य स्तवस्य स्पर्धा साम्यं माईति नवो नूतनः
सोऽयं शिवनवः शिवस्य नवः स्तवः प्रभुप्रसादनाख्यो वो युष्माकं शिवतातये शिवस्य
तातिस्तस्यै । कल्याणविस्तारायेत्यर्थः । अस्तु । नवः स्तवः किंभूतः । विदुषां या सभा
गोष्टी तस्यां जनस्य सभाजनं प्रीतिदर्शनं तस्य भाजनं पात्रमिति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुप कया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअलौ
प्रभुप्रसादनं नाम त्रयोदशं स्तोत्रम् ।
 
चतुर्दशं स्तोत्रम् ।
 
अथातो हिताख्यं स्तोत्रं चतुर्दशमारभमाण आह-
-
 
येन नेत्रकरशेखरस्पृशा हन्ति सन्तमसमन्तरीश्वरः ।
 
ऐन्दवं दवथुहारि हारि तद्धाम कामदमदभ्रमस्तु वः ॥ १ ॥
 
नेत्रं वामनेत्रं च करो वामकरश्च शेखरं मुकुटं च तानि स्पृशतीति नेत्रकरशेखर-
स्पृक् तादृशेन येन चन्द्र तेजसान्तर्मनसि स्थितं सन्तमसमझानाख्यमोश्वरः श्रीशिवो
इन्ति । भक्तजनस्येति शेषः । हारि मनोहरं दवथुहारि संतापहरं तदैन्दवं चान्द्रं धामा-
दभ्रमनल्पं कृत्वा वो युष्माकं कामदमी हितप्रदमस्तु ।
 
भक्ति निर्भरगभीरभारतीवैभवो भव भवन्नवेषु यः ।
शुष्कशष्पमिव तस्य भासते वासवासनपरिग्रहग्रहः ॥ २ ॥
 
१. 'शिवतातये' ख.
 
Digitized by Google