This page has not been fully proofread.

२२६
 
काव्यमाला ।
 
हे भव परमेश, गुणिभिर्गुणाः पाण्डित्यदयादाक्षिण्यादयो विद्यन्ते येषां ते तैः ।
तथा विबुधैर्देवैः । हरीन्द्रमुख्यैश्च हरिविष्णुरिन्द्रः शक्रो मुख्यो येषां ते तादृशैस्तुतस्य तव
संसार एव च्छिद्रान्वेषित्वाद्रिपुस्तस्य द्विषो निवारकस्य तत्र प्रसादात्प्राणहरोऽपि घात-
कोऽप्यसुहृत् न सुहृदसुहृच्छत्रुः पुण्यभाजां सुकृतिनां हितमातनुते । अत्र गुणिभिर्विषुधै-
रिति हरोन्द्र इति भवसंसार इति रिपोद्विष इति असून्प्राणान्हरतीत्यसुहृत्प्राणहर इति
'आमुखे पौनरुक्त्यं पर्यवसाने तदभावः' इत्यसमस्तपदोत्थः पुनरुक्तवदाभासः ॥
अपि नाथ जनार्दनस्य विष्णोरपि वैकुण्ठ इति प्रसिद्धिभाजः ।
अधिकंसरुषोऽपि चेद्भवत्तो झगिति प्रागभवत्सुदर्शनाप्तिः ॥ ३९ ॥
अपि सर्वजनाविरुद्धबुद्धेरपि तीक्ष्णस्य परं जितक्रुषोऽपि ।
 
न कथं मम साधुनापि यद्वा जगदीशोऽसि विभुः किमुच्यते ते ॥४०॥
 
(युगलकम् )
 
हे नाथ, जनान्धर्मग्लानिकरानर्दयति पीडयतीति जनार्दनस्तस्य तादृशस्यापि जनपी-
डकस्यापि । तथा विकुण्ठस्यापत्यं वैकुण्ठ इति प्रसिद्धिभाजोऽपि । अथ च वै प्रसिद्धौ
कुण्ठ इति । तथा अधिकंसं कंसेऽसुरे रुट्रोषो यस्य स तादृशस्य । अथ चाधिकमत्यर्थ
सरुषोऽपि विष्णोर्नारायणत्य सुदर्शनाप्तिः सुदर्शनाख्यचक्राप्तिर्भवत्तस्त्वत्तो विभोः स
काशाज्झगिति शीघ्रमेव चेद्यदि प्राक्पुरा अभवत्तर्हि सर्वजनेष्वविरुद्धबुद्धेरपि तथा कु-
ण्ठाद्भिन्नस्य तीक्ष्णस्य तीक्ष्णमतेरपि तथा परं केवलं जितक्रुधोऽपि गतरुषोऽपि ममा-
धुनेदानीमपि सा सुदर्शनाप्तिः शोभनदर्शनप्राप्तिः कथं न भवति भवत्सकाशात् । यद्वा
पक्षान्तरे । जगदीशोऽसि त्रिलोकनाथोऽसि । विभुः स्वतन्त्रः । मया ते तव क्रिमुच्यते ।
अत्राप्यसमस्तपदः पुनरुक्तवदाभासः ॥
 
सुमनःसुलभे तथा न नाके सुमनः सुन्दरसौरभे न चास्थाम् ।
 
सुमनःसु च नाश्नुते सुधार्द्रासु सुमनः सुष्टु यथा भवत्कथासु ॥ ४१ ॥
 
भक्तजनस्येति शेषः । भक्तजनस्य मनश्चित्तं सुमनोभिर्देवैः सुलभे सुप्राप्ये नाके स्व-
र्गेऽप्यास्थां नाश्ते भजते । 'आस्थानीयत्नयोरा स्था' इत्यमरः । तथा सुमनसां पुष्पाणां
सुन्दरं मनोहारि घ्राणतर्पणं च यत्सौरभं तत्रापि भक्तजनमनो नास्थां भजते । तथा
सुमनःसु मालतीपुष्पेषु (पण्डितेषु वा) चास्थां भक्तजनमनो न भजते । तथा कथमि-
त्याह – सुधयामृतरसेनार्द्रासु सुधार्द्रासु भवत्कथासु भवच्चरितकथासु यथा भक्तजनमनः
सुनु अत्यर्थमास्थां भजते । 'सुमनाः पुष्पमालत्योस्त्रिदशे कोविदे शनौ' इति विश्वः ।
अत्र च सुमनः शब्द सङ्गेन ममापि वृत्तमेकम् – 'उन्मत्तानां यदि सुमनसां वृन्दमेत -
त्सुमालां धृत्वा नित्यं स्त्रमतिकृपया प्रेमपात्रोकरोषि । हा धिकष्टं किमपरमतो मोहमद्येन
कस्मादुन्मत्तं मामपि सुमनसं न त्वमङ्गीकरोषि ॥'
 
Digitized by Google