This page has not been fully proofread.

१३ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२२५
 
यदभयद भवत्यवस्थितेऽन्तः समहिम नो हि मनो विशोकमासीत् ।
विशदविशदकर्मकर्दमे तत्सपदि विषादि विषाद केन जातम् ॥ ३४ ॥
हे अभयद । विषमत्ति विषादस्तत्संबोधनं हे विषाद । हि निश्चये । भवति सच्चिदा-
नन्दघने परमेश्वरेऽन्तरवस्थिते सति समहिम महत्त्वयुक्तं नोऽस्माकं मनो यद्विशोकं वि-
गतजन्मजरामरणदुःखमासीत्तदेवैतन्नो मनः सपदीदानीमविशदकर्मकर्दमे कलुषकर्मपङ्के
विशत्पतत्सद्विषादि विषादो दुःखं विद्यते यस्य तत्तादृशं केन हेतुना जातम् । न जान
इति शेषः ॥
 
नयविनयविशुद्धमन्तरुद्यद्दहनसमानसमाप्तरोषदोषम् ।
 
यमनियमनियन्त्रितं मनो मे कुरु सविलासविलासिनीविरक्तम् ॥ ३९ ॥
 

 
हे विभो, नयेत्यादिविशेषणविशिष्टं मे मम मनः कुरु । इतिं प्रार्थये इत्यर्थः । नयो
नीतिः कार्याकार्यविचारः । विनयो ज्ञानवयोवृद्धेषु प्रहता । ताभ्यां विशुद्धं निर्मलम् ।
तथा अन्तरुयन्तौ दहनसमानावनिसमौ समाप्तौ नाशितौ रोषदोषौ यत्र तत्तथा । य
मेन दशविधेन नियमेन चैतावता नियन्त्रितम् । तथा सविलासा या विलासिनी
तस्यां विरक्तं निरनुरागम् । 'आनृशंस्यं क्षमा सत्यमहिंसा च दया स्पृहा । ध्यानं प्र
सादो माधुर्यमार्जवं च यमा दश ॥' 'शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहौ ।
व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥"
 
अवसरसरसालसालघूद्यन्मधुरवधूरवधूतचित्तचिन्तः ।
 
स सकलकलधौतधौतमूर्तिस्तव नतिमानतिमात्रचित्रचियः ॥ ३६ ॥
 
हे विभो, अतिमात्रं चित्रा विस्मयकारिणी चित्संविद्यस्य स तादृशः । 'प्रेक्षोपल-
ब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः' इत्यमरः । एवंविधो यः पुरुषस्तव नतिमान्प्रणाम-
प्रहो भवति स पुरुषोऽवसरे रतिप्रसङ्गे सरसोऽलसोऽलघुर्बहुरुद्यन्यो मधुरो वधूरवो म
णितसीत्काररूपस्तेन धूता निर्नाशिता चित्तचिन्ता मनोव्यथा यस्य स तादृशो भवति ।
पुनः किंभूतः । सकला सर्वा कलधौतधौता स्वर्णस्वच्छा मूर्तिर्यस्य स तादृग्भवति
मलमलमलघुं विहन्तुमाप्तुं मुदमुदयं समयं समर्थ्य चान्तः ।
महमहमहहेश्वरप्रशंसामयमयमाश्रयमाश्रयं सुखानाम् ॥ ३७ ॥
 
अहहेत्यानन्दे । अन्तर्मनस्युदयं निजोदयं समयं च समर्थ्य ज्ञात्वा अलघुं महान्तं
मलं दुरितमलं विहन्तुम् । तथा मुदं परानन्दमयीं निर्वृतिमाप्तुं सुखानामाश्रयमीश्वर-
प्रशंसामयं श्रीशिवस्तुतिप्रकृतिकं महं महोत्सवमयमहमाश्रयं श्रितोऽस्मि ॥
 
गुणिभिर्विबुधैर्हरीन्द्रमुख्यैर्भव संसाररिपोद्विषः स्तुतस्य ।
हितमातनुते तव प्रसादाद सुहृत्प्राणहरोऽपि पुण्यभाजाम् ॥ ३८ ॥
१. 'विहर्तु' ख. २. 'गुणानाम्' ख.
 
Digitized by Google