This page has been fully proofread once and needs a second look.

१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
देहं यस्य तम् । 'आत्मा वै पुत्रनामा स्यात्' इति स्मृतेः । शन्तनुनृपतिमूर्ती तत्सुतौ यौ

तौ भीष्मविचित्तवीर्याख्यौ कथं न भवेतामिति विरोधाभासः ॥
 

आपतन्तमिति । तथा तं विभुं कम्। यो विभुः पुरोऽग्रत आपतन्तमागच्छन्तम् ।

श्वेताख्यनृपतित्रासहेतोरिति शेषः । यममन्तकमयमं अविद्यमानो यमो यत्नो यस्य

तम् । तथा सविग्रहं सह विग्रहेण वैरेण वर्तते यः स तं अविप्ग्रहमशरीरं व्यधात् । शर

णागतश्वेतत्राणाय ददाहेत्यर्थः । तथा दर्पकं दर्पयति कामिनमिति दर्पकः कामस्तं

अदर्पकं अविद्यमाने । दर्पो यस्य स तं व्यधात् । निरहंकारं चकारेत्यर्थः । विरोधा-

भासः । त्रिभिर्विशेषकम् !!
 

 
अम्बरेण गगनेन संवृतं जीवनैः शिरसि वारिभिः श्रितम् ।

भोगिमिभिश् भुजगैर्विभूषितं शंकरं शुभकरं भजामहे ॥ २१ ॥
 

 
अम्बरेणेति । वयं शंकरं शं कल्याणं निःश्रेयसरूपं करोति शंकरस्तं भजामहे सेवा-

महे । किंभूतम् । शुभकरं शुभं त्रिजगन्मङ्गलं करोति तादृशम् । पुनश्च किंभूतम् ।

गगनेनाकाशेन गच्छन्त्यनेन देवा इति गगनं व्योम तेनैवाम्बरेण वस्त्रेण परिवेष्टितम् ।

तथा जीवयन्ति तृषातुरानिति जीवनानि तैर्जीवनैराप्यायकैर्वा रिभिर्जलैः । मन्दाकिन्या

इति शेषः । तैः श्रितम् । कुत्र । शिरसि । तथा भुजानष्टादश । 'अष्टादशभुजं देवं

नीलकण्ठं सुतेजसम्' इति स्वच्छन्दतन्त्रराजोक्तेः । तान्गच्छन्तीति भुजगाः । तादृ-

शैर्भोगिभिः सर्पेपैर्वासुक्याद्यैर्भूषितमलंकृतम् । अत्र श्लोके असमस्तपदपुनरुक्तवदाभासः ।

तथा हि – अम्बरेण गगनेनेति, जीवनैर्वारिभिरिति, भोगिभिर्भुजगैरिति, शंकरं शुभ-

करमिति आभिमुख्ये पौनरुक्त्यं पर्यवसानेऽन्यार्थत्वात्तदभावः । अत्र च 'नौमि पा-

र्षदगणान्वितं विभुम्' इत्यपि पाठो दृश्यते । तत्पक्षे पार्षदानां नन्दिमहाकालादीनां

प्रमथानां गणाः समूहास्तैरन्वितम् । "परिषदो द्व्यच्कत्वं च । 'ततः पर्षदपार्षदाः' इति

संसारावर्तादेः । 'स पार्षदैरम्बरमापुपूरे' इति जाम्बवत्यां पाणिनिः" इति रायमुकुट्याम् ।

अत्रापि पार्षदगण इत्यामुखे पौनरुक्त्यं पर्यवसाने तदभावः ॥
 

 
पावकेन शिखिनोपशोभितं भासितं सितरुचा हिमांशुना ।
 

भास्वता च रविणा विराजितं लोचनत्रयमुपास्महे विभोः ॥ २२ ॥
 

 
पावकेन शिखिनेति । पावयति पवित्रीकरोतीति पावकस्तेन पावकेन शिखिना व
हि

ह्वि
ना उपशोभितम् । ललाट इति शेषः । सिता रुग्यस्य स तादृशेन हिमांशुना चन्द्रेण

चामाक्षिकवाटस्थेन, तथा भास्वता भासो विद्यन्ते यस्य स तादृशेन रविणा सूर्येण द-

क्षिणाक्षिकवाटस्थेन शोभितम् । विभोः श्रीशिवस्य लोचनत्रयं नेत्रत्रयमुपास्महे वयम् ।

अत्रापि श्लोके असमस्तपदपुनरुक्तवदाभासः ॥ एतद्वृत्ताभिप्रायच्छायानुसारेण ममापि

वृत्तमेकम् – 'भक्तिप्रह्वजनस्य यत्किल तमोध्वान्तं निहत्यान्तरं दृष्टघंट्यंशेन यमान्तकारि

मदनं निर्दर्पकं यद्व्यधात् । भास्वद्भास्करपावकामिग्निशशभृच्छीतांशुसंभूषितं तन्नेत्रत्रि-
२.
 
Digitized by Google