This page has not been fully proofread.

१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
देहं यस्य तम् । 'आत्मा वै पुत्रनामा स्यात्' इति स्मृतेः । शन्तनुनृपतिमूर्ती तत्सुतौ यौ
तौ भीष्मविचित्तवीर्याख्यौ कथं न भवेतामिति विरोधाभासः ॥
 
आपतन्तमिति । तथा तं विभुं कम्। यो विभुः पुरोऽग्रत आपतन्तमागच्छन्तम् ।
श्वेताख्यनृपतित्रासहेतोरिति शेषः । यममन्तकमयमं अविद्यमानो यमो यत्नो यस्य
तम् । तथा सविग्रहं सह विग्रहेण वैरेण वर्तते यः स तं अविप्रहमशरीरं व्यधात् । शर
णागतश्वेतत्राणाय ददाहेत्यर्थः । तथा दर्पकं दर्पयति कामिनमिति दर्पकः कामस्तं
अदर्पकं अविद्यमाने । दर्पो यस्य स तं व्यधात् । निरहंकारं चकारेत्यर्थः । विरोधा-
भासः । त्रिभिविशेषकम् !!
 
अम्बरेण गगनेन संवृतं जीवनैः शिरसि वारिभिः श्रितम् ।
भोगिमिश्र भुजगैर्विभूषितं शंकरं शुभकरं भजामहे ॥ २१ ॥
 
अम्बरेणेति । वयं शंकरं शं कल्याणं निःश्रेयसरूपं करोति शंकरस्तं भजामहे सेवा-
महे । किंभूतम् । शुभकरं शुभं त्रिजगन्मङ्गलं करोति तादृशम् । पुनश्च किंभूतम् ।
गगनेनाकाशेन गच्छन्त्यनेन देवा इति गगनं व्योम तेनैवाम्बरेण वस्त्रेण परिवेष्टितम् ।
तथा जीवयन्ति तृषातुरानिति जीवनानि तैर्जीवनैराप्यायकैर्वा रिभिर्जलैः । मन्दाकिन्या
इति शेषः । तैः श्रितम् । कुत्र । शिरसि । तथा भुजानष्टादश । 'अष्टादशभुजं देवं
नीलकण्ठं सुतेजसम्' इति स्वच्छन्दतन्त्रराजोक्तेः । तान्गच्छन्तीति भुजगाः । तादृ-
शैर्भोगिभिः सर्पेर्वासुक्याद्यैर्भूषितमलंकृतम् । अत्र श्लोके असमस्तपदपुनरुक्तवदाभासः ।
तथा हि – अम्बरेण गगनेनेति, जीवनैर्वारिभिरिति, भोगिभिर्भुजगैरिति, शंकरं शुभ-
करमिति आभिमुख्ये पौनरुक्त्यं पर्यवसानेऽन्यार्थत्वात्तदभावः । अत्र च 'नौमि पा-
र्षदगणान्वितं विभुम्' इत्यपि पाठो दृश्यते । तत्पक्षे पार्षदानां नन्दिमहाकालादीनां
प्रमथानां गणाः समूहास्तैरन्वितम् । "परिषदो द्व्यच्कत्वं च । 'ततः पर्षदपार्षदाः' इति
संसारावर्तादेः । 'स पार्षदैरम्बरमापुपूरे' इति जाम्बवत्यां पाणिनिः" इति रायमुकुट्याम् ।
अत्रापि पार्षदगण इत्यामुखे पौनरुक्त्यं पर्यवसाने तदभावः ॥
 
पावकेन शिखिनोपशोभितं भासितं सितरुचा हिमांशुना ।
 
भास्वता च रविणा विराजितं लोचनत्रयमुपास्महे विभोः ॥ २२ ॥
 
पावकेन शिखिनेति । पावयति पवित्रीकरोतीति पावकस्तेन पावकेन शिखिना व
हिना उपशोभितम् । ललाट इति शेषः । सिता रुग्यस्य स तादृशेन हिमांशुना चन्द्रेण
चामाक्षिकवाटस्थेन, तथा भास्वता भासो विद्यन्ते यस्य स तादृशेन रविणा सूर्येण द-
क्षिणाक्षिकवाटस्थेन शोभितम् । विभोः श्रीशिवस्य लोचनत्रयं नेत्रत्रयमुपास्महे वयम् ।
अत्रापि श्लोके असमस्तपदपुनरुक्तवदाभासः ॥ एतद्वृत्ताभिप्रायच्छायानुसारेण ममापि
वृत्तमेकम् – 'भक्तिप्रह्वजनस्य यत्किल तमोध्वान्तं निहत्यान्तरं दृष्टघंशेन यमान्तकारि
मदनं निर्दर्पकं यद्व्यधात् । भास्वद्भास्करपावकामिशशभृच्छीतांशुसंभूषितं तन्नेत्रत्रि-
२.
 
Digitized by Google