This page has been fully proofread once and needs a second look.

२२४
 
काव्यमाला ।
 
प्रणमति विधुरे पुरोऽवै[^१]वलग्ने दधति मयि प्रसभं गदाभियोगम् ।

किमिति परिजने दयामृतार्द्रारां दृशमे[^२]मपकारवतीव नो ददासि ॥ ३० ॥

 
अपकारो विद्यते यस्य स तादृशेऽपकारवति रिपाविव प्रणमति प्रहेह्वे । तथा पुरोऽप्ग्रतो-

sवलग्ने लीने । तथा गदेन जन्मजरामरणत्रासरोगेणाभियोग आक्षेपस्तं दधति परिजने

दासे मयि कृपामृतेनार्द्रारां दृशं किं नो ददासि किं न वितरसि । अथ च मध्थ्येवं पूर्वोक्त-

विशेषणविशिष्टेऽपकारवति । न पकारो विद्यते यस्य सोऽपकारवांस्तादृशे । अस्वरप-

काररहितविशेषणविशिष्ट इत्यर्थः । तथा च 'प्रणमति विधुरे' इत्यत्र स्वररहितपकारेण

'प्' इत्यनेन रहिते रणमतिविधुरे रणे युद्धे या मतिस्तया विधुरे व्याकुले । तथा 'पुरो-
वल

वलग्
ने' इत्यत्रास्वरेण पकारेण रहिते उरोवलग्ने
…………
रसभङ्गदाभियोगं

दधति रसस्य भङ्गो नाशस्तं ददातीति रसभङ्गदश्वाचासावभियोग आक्षेपस्तं दधति । तथा

'परिजने' इत्यत्र स्वररहितपकाररहिते अरिजने इव मयीत्यर्थः ॥
 
...........
 
चक्षुः ।
 

 
स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार
चक्षुः ।
बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥ ३१ ॥
 

 
अहीनां सर्पाणामिन्द्रो वासुकिः स एव हारो यस्य स तादृश हे अहीन्द्रहार श्रीशिव,

सिद्धेरष्टविधाया अणिमादिकाया आकरमुत्पत्तिस्थानं स्फुटो व्यक्तो विकटोऽतीवोत्कटो

विकस्वरो विततः प्रदीप्तो ज्वलनोऽग्निर्यत्र तादृशमहीनं परिपूर्णं चक्षुस्तृतीयं चक्षुर्मुश्ञ्

क्षिप । दीनजनं प्रतीत्यर्थः । किंभूतम् । अविद्यमाना लवाः कणा यस्य स तादृशः । पूर्ण

इत्यर्थः । अलवो दर्पोऽहंकारो ययोस्तौ बलवन्तौ पूर्णदर्पोपौ च यौ कालकामौ तयोः क्षयं

करोति तादृशम् ॥
 

 
हिमकरमकरध्वजौ न रूपं कविधिषणौ घिधिषणौचितीं न तीव्राम् ।

रणमरुणमरुत्सखौ जिगीषोरनुहरतो हरतोषिणो न तेजः ॥ ३२ ॥
 
-
 

 
हरं श्रीशिवं तोषयतीति हरतोषी श्रीशिवभक्तजनस्तस्य रूपं चन्द्रकामौ नानुहरतो

नानुकुरुतः । तथा कविधिषणौ शुक्रबृहस्पती अपि तीव्रामतितीक्ष्णां धिषणौचितीं

शिवभक्तस्य नानुहरतः । तथा अरुणमरुत्सखौ सूर्यामीग्नी अपि । 'मिहिरारुणपूषणा: '

इत्यमरः । तावपि शिवभक्तस्य रणं सङ्ग्रामं (तेजश्च) नानुहरतः । किंभूतस्य जिगीषोः ।

जेतुमिच्छजिंछुर्जिगीपुषुस्तस्य ॥
 

 
रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी
 
श्रीः ।
 

भव न भवनमुज्झति क्षणं यत्सुकृतवतां तव तां प्रणौमि शक्तिम् ॥३३॥

 
हे भव शंभो, सूर्यकिरणफुल्लपुण्डरीक शुभ्रचामरच्छत्रचारुहासवती लक्ष्मीर्भवनं गृहं

सुकृतवतां पुण्यवतां जनानां यत्रन्न क्षणं मुश्ञ्चति तां तव शक्तिमनन्तस्वतन्त्रपारमैश्वर्य-

रूपां शक्तितिं प्रकर्षेण नौमि । 'भक्तिम्' इत्यपि पाठः साधुः । त्वद्भक्तिफलमेतदित्यर्थः ॥

 
[^
]. 'विलमेग्ने' ख.
[^
]. 'उपकारवति' ख.
 
Digitized by Google