This page has not been fully proofread.

२२४
 
काव्यमाला ।
 
प्रणमति विधुरे पुरोऽवैलग्ने दधति मयि प्रसभं गदाभियोगम् ।
किमिति परिजने दयामृतार्द्रा दृशमेपकारवतीव नो ददासि ॥ ३० ॥
अपकारो विद्यते यस्य स तादृशेऽपकारवति रिपाविव प्रणमति प्रहे । तथा पुरोऽप्रतो-
sवलने लीने । तथा गदेन जन्मजरामरणत्रासरोगेणाभियोग आक्षेपस्तं दधति परिजने
दासे मयि कृपामृतेनार्द्रा दृशं किं नो ददासि किं न वितरसि । अथ च मध्येवं पूर्वोक्त-
विशेषणविशिष्टेऽपकारवति । न पकारो विद्यते यस्य सोऽपकारवांस्तादृशे । अस्वरप-
काररहितविशेषणविशिष्ट इत्यर्थः । तथा च 'प्रणमति विधुरे' इत्यत्र स्वररहितपकारेण
'प्' इत्यनेन रहिते रणमतिविधुरे रणे युद्धे या मतिस्तया विधुरे व्याकुले । तथा 'पुरो-
वलने' इत्यत्रास्वरेण पकारेण रहिते उरोवलने
रसभङ्गदाभियोगं
दधति रसस्य भङ्गो नाशस्तं ददातीति रसभङ्गदश्वासावभियोग आक्षेपस्तं दधति । तथा
'परिजने' इत्यत्र स्वररहितपकाररहिते अरिजने इव मयीत्यर्थः ॥
 
...........
 
चक्षुः ।
 
स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार
बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥ ३१ ॥
 
अहीनां सर्पाणामिन्द्रो वासुकिः स एव हारो यस्य स तादृश हे अहीन्द्रहार श्रीशिव,
सिद्धेरष्टविधाया अणिमादिकाया आकरमुत्पत्तिस्थानं स्फुटो व्यक्तो विकटोऽतीवोत्कटो
विकस्वरो विततः प्रदीप्तो ज्वलनोऽग्निर्यत्र तादृशमहीनं परिपूर्ण चक्षुस्तृतीयं चक्षुर्मुश्च
क्षिप । दीनजनं प्रतीत्यर्थः । किंभूतम् । अविद्यमाना लवाः कणा यस्य स तादृशः । पूर्ण
इत्यर्थः । अलवो दर्पोऽहंकारो ययोस्तौ बलवन्तौ पूर्णदर्पो च यौ कालकामौ तयोः क्षयं
करोति तादृशम् ॥
 
हिमकरमकरध्वजौ न रूपं कविधिषणौ घिषणौचितीं न तीव्राम् ।
रणमरुणमरुत्सखौ जिगीषोरनुहरतो हरतोषिणो न तेजः ॥ ३२ ॥
 
-
 
हरं श्रीशिवं तोषयतीति हरतोषी श्रीशिवभक्तजनस्तस्य रूपं चन्द्रकामौ नानुहरतो
नानुकुरुतः । तथा कविधिषणौ शुक्रबृहस्पती अपि तीव्रामतितीक्ष्णां धिषणौचितीं
शिवभक्तस्य नानुहरतः । तथा अरुणमरुत्सखौ सूर्यामी अपि । 'मिहिरारुणपूषणा: '
इत्यमरः । तावपि शिवभक्तस्य रणं सङ्ग्रामं (तेजश्च) नानुहरतः । किंभूतस्य जिगीषोः ।
जेतुमिच्छजिंगीपुस्तस्य ॥
 
रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी
 
श्रीः ।
 
भव न भवनमुज्झति क्षणं यत्सुकृतवतां तव तां प्रणौमि शक्तिम् ॥३३॥
हे भव शंभो, सूर्यकिरणफुल्लपुण्डरीक शुभ्रचामरच्छत्रचारुहासवती लक्ष्मीर्भवनं गृहं
सुकृतवतां पुण्यवतां जनानां यत्र क्षणं मुश्चति तां तव शक्तिमनन्तस्वतन्त्रपारमैश्वर्य-
रूपां शक्ति प्रकर्षेण नौमि । 'भक्तिम्' इत्यपि पाठः साधुः । त्वद्भक्तिफलमेतदित्यर्थः ॥
१. 'विलमे' ख. २. 'उपकारवति' ख.
 
Digitized by Google