This page has been fully proofread once and needs a second look.

१३ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
कवलितविषमक्लमं
 
दधानः सततसमाश्रिततारकारिरूपम् ।

द्विजपतिमुकुटस्तथैव जातु त्वमिव शिव त्वयि संमुखे भवेयम् ॥२७॥
 
२२२
 

(युगलकम्)
 

 
हे शिव, सपदीदानीं त्वयि पराङ्मुखे सति यथैवंविधोऽहं त्वमिवास्मि तथैव त्वयि

संमुखे त्वमिवाहं जातु भवेयम् । कदा भविष्यामीत्यर्थः । उभावपि विशेषणैर्विशिनष्टि-

अहं किंभूतः । धृताः कुटिला अधमाः कलाः शिल्पानि येन सः । तथान्धकारी अज्ञा-

नरूपान्धकारवान् । तथा रुचितः प्रियो मलीमसो भोगिनां भोगयुक्तानां भोगैर्विषयैः

सह योगो यस्य सः । पुनः किंभूतः । महांश्चासौ कलिकालस्तुरीययुगकालस्तेन भग्ना

शक्तिर्यस्य सः । श्रीशिवपक्षे - त्वं किंभूतः ।.....अन्धकस्यासुरविशेष-

स्यारिरन्धकारिः । पुनः किंभूतः । रुचितः प्रियो मलीमसैर्भोगिभोगैः फणिकलेवरैः सह

योगो यस्य सः । पुनः किंभूतः । महाकलिर्महावैरवान्यः कालस्तस्य भग्ना शक्तिर्येन

सः । यथा त्वयि पराड्युमुखे स्वमिवाहमस्मि तथैव च त्वयि संमुखे विभो, अहं कदा

जातु भवेयम् । अहं किंभूतः । रूपं दधानः । किंभूतं रूपम् । कवलितो दूरं गतो वि-

षमः क्लमो भवमरुभ्रमणजो यस्य तत् । पुनः किंभूतम् । सततं समाश्रितानां सेव-

कानां तारं विपदो निस्तारं करोतीति सततसमाश्रिततारकारि । अहं किंभूतः । द्विज

पतिमुकुटो ब्राह्मणेन्द्रमौलिः । 'मुकुटं पुंनपुंसकम्' इत्यमरः । श्रीशिवपक्षे – त्वं किंभूतः ।

रूपं दधानः । किंभूतम् । कवलितं प्ग्रस्तं विषं कालकूटाख्यं येन तत् । पुनः किंभूतम् ।

अक्लमम् । अविद्यमानाः क्लमा: क्लेशाः पश्चाविद्यादयो यस्य तत् । पुनः किंभूतम् । ता-

रकस्य तारकासुरस्यारिः कुमारः । सततं समाश्रितस्तारकारिः कुमारो यत्र येन वा ॥

युगलकम् ॥
 

 
जय जयद वचो विमुञ्च मुञ्चन्मधु मधुरं जनरञ्जनप्रगल्भम् ।
 

हर हर दुरितं ममाद्य माद्यद्भव भव भीमदभीमदर्शनस्त्वम् ॥ २८ ॥
 

 
जयं जगज्जयं ददातीति तस्य संबोधनं हे जयद, मधुरं स्वादु तथा जनानां रञ्जने

प्रगल्भं मध्वमृतं मुञ्चत्स्रवद्वचोऽभयवचो विमुश्ञ्च । है हर भवदुःखहर, अद्येदानीं माद्य-

दतीवोल्लसद्दुरितं पापं मम हर दूरीकुरु । हे भव शंभो, भीर्भयं संसारजं विद्यते येषां ते

भीमन्तो मादृशास्तेषामभीमं सौम्यं दर्शनं यस्य स तादृशोऽभीमदर्शनो भव ॥
 

 
निजवृजिनविजृम्भितं ममैतन्त्रिजगदनुग्रहनित्यदीक्षितस्त्वम् ।

क्वचिदपि भगवन्नदृष्टपूर्वं प्रथयसि यन्मयि विह्वलेऽवलेपम् ॥ २९ ॥
 

 
हे भगवन्परमैश्वर्यादिषट्कयुक्त, क्वचिदपि क्वाप्यदृष्टपूर्वेवं न पूर्व दृष्टमवलेपं शरणागता-

वगणनां मयि वराके यत्प्रथयसि विस्तारयसि तदेतन्ममैव निजदुरितविलसितम् । य

तस्त्वं सदैव त्रिजगदनुग्रहे नित्यं दीक्षितो व्रती ॥
 
Digitized by Google