This page has been fully proofread once and needs a second look.

२२२
 
काव्यमाला ।
 
हे भगवन्परमशिव, प्रशस्तो गौः पुंगवः । पुंगवानामिन्द्रो महावृषभः स एकस्त्रिभुव-

नसीमनि त्रिजगद्वर्त्मन्यप्यवन्ध्यं सफलं धन्यं जन्मालभत । स क इत्याह - हे भव

शंभो, विनयानतेन विनयप्रहेह्वेन येन महावृषभेण । शवति यात्यस्माज्जीव इति शवः । श
वम

वभ
स्मना रूषितो व्याप्तस्तव विभोश्चरणः शिरसि निजे धृतः ॥
 

 
जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य ।

त्रिभुवनमहितस्य यस्य कृत्तिर्भव भवदम्बरडम्बरं बिभर्ति ॥ २२ ॥
 

 
हे भव शंभो, कुञ्जौ कुम्भाधोभागौ दंष्ट्रे वास्य स्त इति कुञ्जरो इस्ती त्रिभुवने

पूजितस्य तस्य गजेन्द्रस्य जनिरपि जन्मापि केषां न भक्तजनानां स्पृहामभिलाषं जन-

यति । अपि तु सर्वेषाम् । तस्य कस्येत्याह – यस्य कृत्तिश्चर्म भवदम्बरडम्बरं भवद्व-

स्
त्राटोपं बिभर्ति ।
 

 
स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः ।
 

तव कवलभुवं जवादवाप्तः कलयति यः शितिकण्ठ कण्ठपीठम् ॥२३॥
 

 
हे जितान्तक शितिकण्ठ, स्वजन्या स्वजन्मना पवित्रितो मुग्धो रम्यो दुग्धसिन्धुः

क्षीरोदधिर्येन स तादृशः कालकूटो विषविशेषो जयति सर्वोत्कृष्टो भवति । स क इ-

त्याह—यः कालकूटस्तव कवलभुवं प्रासपदवीं जवाद्वेगेनावाप्तः संस्तव कण्ठपीठं कल-

यति भूषयति ॥
 

 
परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः ।
 

इति शुभमुभयं विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दे ॥ २४

 
पूर्णशरच्चन्द्रमनोहराभं विभोः श्रीशंभोर्मुखं तथानभ्रनभोनिभो गतमेघाकाशतुल्यो

नीलो गलश्चेति शुभं शुभकारि उभयं द्वयमभिन्ने समवेते ये त्रिदशधुनीयमुने गङ्गायमुने

ते विडम्बयत्यनुकरोतीति तादृशं वन्दे ॥
 

 
हिमहिमकरहारि वारि गाङ्गं कुवलयकान्ति कलिन्दकन्यकाम्भः ।

इति शुभमुभयं प्रभुप्रसादाद्वपुरिव हारिहरं वरं प्रपद्ये ॥ २५ ॥
 

 
हिमं च हिमकरश्चन्द्रश्च तद्वद्धारि मनोहारि गाङ्गं जलं तथा कुवलयकान्ति नीलो-

त्पलाभं यमुनाम्भश्चेति शुभदमुभयं वरमुत्कृष्टं प्रभुप्रसादात्प्रपद्ये प्राप्स्यामि । कदेति शेषः ।

किमिव । हारिहरं हरिहरसंबन्धि वपुरिव ॥
 

 
धृतकुटिलकलः किलान्धकारी [^१]रुचितमलीमसभोगिभोगयोगः ।

त्वयि सपदि पराङ्मुखे यथाहं त्वमिव महाकलिकालभग्नशक्तिः ॥ २६ ॥
 

 
[^
]. 'रुचिर' स्व.
 
Digitized by Google