This page has not been fully proofread.

२२२
 
काव्यमाला ।
 
हे भगवन्परमशिव, प्रशस्तो गौः पुंगवः । पुंगवानामिन्द्रो महावृषभः स एकत्रिभुव-
नसीमनि त्रिजगद्वर्त्मन्यप्यवन्ध्यं सफलं धन्यं जन्मालभत । स क इत्याह - हे भव
शंभो, विनयानतेन विनयप्रहेन येन महावृषभेण । शवति यात्यस्माजीव इति शवः । श
वमस्मना रूषितो व्याप्तस्तव विभोश्चरणः शिरसि निजे धृतः ॥
 
जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य ।
त्रिभुवनमहितस्य यस्य कृत्तिर्भव भवदम्बरडम्बरं बिभर्ति ॥ २२ ॥
 
हे भव शंभो, कुञ्जौ कुम्भाधोभागौ दंष्ट्रे वास्य स्त इति कुञ्जरो इस्ती त्रिभुवने
पूजितस्य तस्य गजेन्द्रस्य जनिरपि जन्मापि केषां न भक्तजनानां स्पृहामभिलाषं जन-
यति । अपि तु सर्वेषाम् । तस्य कस्येत्याह – यस्य कृत्तिश्चर्म भवदम्बरडम्बरं भवद्व-
त्राटोपं बिभर्ति ।
 
स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः ।
 
तव कवलभुवं जवादवाप्तः कलयति यः शितिकण्ठ कण्ठपीठम् ॥२३॥
 
हे जितान्तक शितिकण्ठ, स्वजन्या स्वजन्मना पवित्रितो मुग्धो रम्यो दुग्धसिन्धुः
क्षीरोदधिर्येन स तादृशः कालकूटो विषविशेषो जयति सर्वोत्कृष्टो भवति । स क इ-
त्याह—यः कालकूटस्तव कवलभुवं प्रासपदवीं जवाद्वेगेनावाप्तः संस्तव कण्ठपीठं कल-
यति भूषयति ॥
 
परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः ।
 
इति शुभमुभयं विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दे ॥ २४
पूर्णशरच्चन्द्रमनोहराभं विभोः श्रीशंभोर्मुखं तथानभ्रनभोनिभो गतमेघाकाशतुल्यो
नीलो गलश्चेति शुभं शुभकारि उभयं द्वयमभिन्ने समवेते ये त्रिदशधुनीयमुने गङ्गायमुने
ते विडम्बयत्यनुकरोतीति तादृशं वन्दे ॥
 
हिमहिमकरहारि वारि गाङ्गं कुवलयकान्ति कलिन्दकन्यकाम्भः ।
इति शुभमुभयं प्रभुप्रसादाद्वपुरिव हारिहरं वरं प्रपद्ये ॥ २५ ॥
 
हिमं च हिमकरश्चन्द्रश्च तद्वद्धारि मनोहारि गाङ्गं जलं तथा कुवलयकान्ति नीलो-
त्पलाभं यमुनाम्भश्चेति शुभदमुभयं वरमुत्कृष्टं प्रभुप्रसादात्प्रपद्ये प्राप्स्यामि । कदेति शेषः ।
किमिव । हारिहरं हरिहरसंबन्धि वपुरिव ॥
 
धृतकुटिलकलः किलान्धकारी रुचितमलीमसभोगिभोगयोगः ।
त्वयि सपदि पराङ्मुखे यथाहं त्वमिव महाकलिकालभग्नशक्तिः ॥ २६ ॥
 
१. 'रुचिर' स्व.
 
Digitized by Google