This page has been fully proofread once and needs a second look.

१३ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२२१
 
नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते' कृतान्तः ।

अपि कवलितसप्तलोकलोकः प्रभवति नैव तदैष मे कृतान्तः ॥ १७ ॥
 

 
हे विभो, नुत्या स्तुत्या मुखरं प्रगल्भं मुखं यस्य स तादृशः पुरुषो मम प्रसादपात्रं

मत्कृतप्रसादपात्रं भवतीत्येष कृतान्तः सिद्धान्तो निश्चयस्ते तव यदि भवति अवश्यमेतस्य

स्तुतिपरस्य प्रसादं करोमीति यदि ते निश्चयो भवति तदा प्ग्रस्तसप्तलोकजनोऽप्येष कृ-

तान्तो यमो मे मम न प्रभवति समर्थो भवति । त्रासयितुमित्यर्थः । 'कृतान्तो यमसि-

द्धान्तदैवाकुशलकर्मसु' इति कोषः ॥
 

 
तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः ।

परिचरणपरः पुराविरासीत्स जयति दैवतमुत्तमं कृशानुः ॥ १८ ॥
 

 
हे विभो, रविजो यमः । पुराणि त्रिपुरासुराः । अन्धकश्चासुरः । तेषां प्रमाथे संह-

रणे क्रमेण दृशि दृष्टौ तृतीयलोचने विशिखे शरे विष्णुरूपे त्रिशिखे त्रिशूले च

कृतास्थो विहितस्थितिरन्तकदाहे भाललोचनस्थस्त्रिपुरदाहे शरीभूतविष्णुमुखाप्ग्रस्थो

ऽन्धकसंहारे त्रिशूलस्थस्तव विभोः परिचरणे सेवायां परस्तत्परो योऽग्निः पुरा पूर्वमावि-

रासीत्प्रकटीबभूव स कृशानुरुत्तमं दैवतमष्टास्वपि मूर्तिषूत्तमो देवो जयति सर्वो-
·

त्कृष्टो वर्तते ॥
 

 
समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः ।

उपकरणपदं जगाम कृत्तिस्तव चरणास्तरणक्रमेण यस्य ॥ १९ ॥
 

 
हे चन्द्रमौले, जनितस्पृह उत्पादिताभिलाषः । त्वद्भक्तपाथासक्तजनस्येत्यर्थः । स एवैकः

कृष्णसारो मृगविशेषस्त्रिजगति त्रैलोक्ये समजनि समुत्पन्नः । क इत्याह – उपकरणेति ।

यस्य धन्यस्य कृष्णसारस्य कृत्तिश्चर्म तव चरणारविन्दयोरास्तरणं तस्य क्रमेण शय-

नसुखेनोपकरणपदं साधनास्पदं जगाम ॥
 

 
जनिरपि जयिनी विनीतरीतिर्जगति भुजंगमपुंगवस्य तस्य ।
 

मणिकटकमुदस्य यस्य शस्यं भव भवदङ्गदभङ्गिमेति भोगः ॥ २० ॥

 
हे भव विभो, विनीता विनयवती रीतिः सौभाग्यं यस्याः सा जनिरपि जन्मापि

भुजंगमपुंगवस्य भुजगेन्द्रस्य तस्य जगति त्रिजगति जयिनी सर्वोत्कर्षवती भवति । तस्य

कस्येत्याह – शस्यं प्रशस्यं मणिकटकं रत्नकङ्कणमुदस्यापास्य यस्य फणीन्द्रस्य भोगो

वपुर्भवत्केयूरविच्छित्तिमेति प्राप्नोति ॥
 

 
अलभत भगवन्नवन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुंगवेन्द्रः ।
 

तव भव शवभस्मरूषितोऽभिःङ्घ्रिः शिरसि धृतो विनयानतेन येन ॥ २१ ॥
 

 
[^
]. 'मे' ख.
 
Digitized by Google