This page has not been fully proofread.

१३ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२२१
 
नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते' कृतान्तः ।
अपि कवलितसप्तलोकलोकः प्रभवति नैव तदैष मे कृतान्तः ॥ १७ ॥
 
हे विभो, नुत्या स्तुत्या मुखरं प्रगल्भं मुखं यस्य स तादृशः पुरुषो मम प्रसादपात्रं
मत्कृतप्रसादपात्रं भवतीत्येष कृतान्तः सिद्धान्तो निश्चयस्ते तव यदि भवति अवश्यमेतस्य
स्तुतिपरस्य प्रसादं करोमीति यदि ते निश्चयो भवति तदा प्रस्तसप्तलोकजनोऽप्येष कृ-
तान्तो यमो मे मम न प्रभवति समर्थो भवति । त्रासयितुमित्यर्थः । 'कृतान्तो यमसि-
द्धान्तदैवाकुशलकर्मसु' इति कोषः ॥
 
तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः ।
परिचरणपरः पुराविरासीत्स जयति दैवतमुत्तमं कृशानुः ॥ १८ ॥
 
हे विभो, रविजो यमः । पुराणि त्रिपुरासुराः । अन्धकश्चासुरः । तेषां प्रमाथे संह-
रणे क्रमेण दृशि दृष्टौ तृतीयलोचने विशिखे शरे विष्णुरूपे त्रिशिखे त्रिशूले च
कृतास्थो विहितस्थितिरन्तकदाई भाललोचनस्थस्त्रिपुरदाहे शरीभूतविष्णुमुखाप्रस्थो
ऽन्धकसंहारे त्रिशूलस्थस्तव विभोः परिचरणे सेवायां परस्तत्परो योऽग्निः पुरा पूर्वमावि-
रासीत्प्रकटीबभूव स कृशानुरुत्तमं दैवतमष्टास्वपि मूर्तिषूत्तमो देवो जयति सर्वो-
·त्कृष्टो वर्तते ॥
 
समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः ।
उपकरणपदं जगाम कृत्तिस्तव चरणास्तरणक्रमेण यस्य ॥ १९ ॥
 
हे चन्द्रमौले, जनितस्पृह उत्पादिताभिलाषः । त्वद्भक्तपासक्तजनस्येत्यर्थः । स एवैकः
कृष्णसारो मृगविशेषस्त्रिजगति त्रैलोक्ये समजनि समुत्पन्नः । क इत्याह – उपकरणेति ।
यस्य धन्यस्य कृष्णसारस्य कृत्तिश्चर्म तव चरणारविन्दयोरास्तरणं तस्य क्रमेण शय-
नसुखेनोपकरणपदं साधनास्पदं जगाम ॥
 
जनिरपि जयिनी विनीतरीतिर्जगति भुजंगमपुंगवस्य तस्य ।
 
मणिकटकमुदस्य यस्य शस्यं भव भवदङ्गदभङ्गिमेति भोगः ॥ २० ॥
हे भव विभो, विनीता विनयवती रीतिः सौभाग्यं यस्याः सा जनिरपि जन्मापि
भुजंगमपुंगवस्य भुजगेन्द्रस्य तस्य जगति त्रिजगति जयिनी सर्वोत्कर्षवती भवति । तस्य
कस्येत्याह – शस्यं प्रशस्यं मणिकटकं रत्नकङ्कणमुदस्यापास्य यस्य फणीन्द्रस्य भोगो
वपुर्भवत्केयूरविच्छित्तिमेति प्राप्नोति ॥
 
अलभत भगवन्नवन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुंगवेन्द्रः ।
 
तव भव शवभस्मरूषितोऽभिः शिरसि धृतो विनयानतेन येन ॥ २१ ॥
 
१. 'मे' ख.
 
Digitized by Google