This page has not been fully proofread.

काव्यमाला ।
 
समुचितसदसद्विचारचर्याचतुरतरः कतरः कलौ मदन्यः ।
 
इह परमशिवं भवं विजेतुं परमशिवं भवमेव सेवते यः ॥ १२ ॥
सम्यगुचिता या सदसतोर्विचारचर्या तस्यामतिशयेन चतुरः कलौ तुरीययुगे स कः
पुमान्मदन्योऽस्ति । अहमेव चतुरतरोऽस्मीत्यर्थः । स क इत्याह – यो मल्लक्षण: परम-
त्यर्थमशिवमसुखदं भवं संसारं विजेतुं विशेषेण जेतुं कथाशेषतां प्रापयितुं भवत्यस्माच्छि-
वादिक्षित्यन्तमिति भवस्तं परमशिवं परमेश्वरं चिदानन्दघनस्वरूपं सेवते ॥
 
२२०
 
शमयितुमलमझिमझिरेव ग्लपयति हन्त हिमं हिमं विवृद्धम् ।
 
जरयति च पयः पयः किमन्यद्धरति भवं भव एव भक्तिभाजाम् ॥१३॥
विवृद्ध मभिमग्निरेव शमयितुमलं समर्थः । हन्त हर्षे आश्चर्ये वा । विवृद्धं महद्धिमं
हिममेव हन्ति । पय एव पयः । अग्निना तप्तमित्यौचित्यात् । अत्यन्तं पीतं जलं जर-
यति । भवः श्रीशिव एव भवं संसारं भक्तिभाजां नृणां हरति । मुक्ति वितरतीत्यर्थः ॥
वरमजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः ।
स्मरहरचरणारविन्दसेवाविरहवती न तु चक्रवर्तिमूर्तिः ॥ १४ ॥
तु
 
भिक्षैव भैक्ष्यम् । स्वार्थे ण्यः । भैक्ष्येण वृत्तिर्भिक्षाजीवनं वरं भवति । कस्य । न-
रस्य । किंभूतस्य । अजिनं मृगचर्म जटाश्च बिभर्तीति तादृशस्य । पुनश्च किंभूतस्य ।
कपालं घटशकलं हस्ते यस्य स तादृशस्तस्य न त्वीश्वरपादकमलसेवाविरहवती चक्रव-
तिमूर्तिर्वरं भवति ॥
 
मरुभुवि वरमुष्णरश्मिरश्मिप्रकरकदर्थितमूर्तिरेकभेकः ।
 
न तु भवदनुरागभागधेयग्लपनविपद्विकैलीकृतो मनुष्यः ॥ १५ ॥
उष्णरश्मीत्यादि सूर्याशुनिकरसंतप्तमूर्तिरेको भेको मण्डूको मरुभुवि वरमस्तु । हे
त्रिभो, भवच्चरणोपासनानुराग एव भागधेयं तस्य ग्लपनं हानिः सैव विपत्तया विकली-
कृतो जडीकृतो मनुष्यो न वरम् ॥
 
कलिमलपटली मलीमसत्वं नयति मतिं हतदर्प दर्पणाभाम् ।
 
इति शितिगल शीतरश्मिरश्मिप्रसरसितं रसितं तवार्थयामः ॥ १६ ॥
 
हे हतदर्प । हतो दूरीकृतो दर्पोऽहंकारी व्यसनानां मध्ये एकमुद्भटं व्यसनं येन तत्सं-
बोधनम् । कलिमलपटली तुरीययुगमलसंहतिर्दर्पणाभां निर्मलमुकुरसदृशीं मति बुद्धि
मलीमसत्वं मलिनत्वं नयति । इत्यतो हेतोर्हे शितिगल नीलकण्ठ, शीतरश्मिरश्मिप्रसर-
सितं चन्द्रांशुप्रसरधवलं प्रसन्नं तव रसितं शब्दमभयवाक्यमर्थयामः काङ्क्षामहे ॥
 
१. 'भूमि:' ख. २. 'कवलीकृतः' ख.
 
Digitized by Google