This page has been fully proofread once and needs a second look.

१३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२१९
 
प्राप्नोति । अथ च रसविद्भिषक्प्रवरस्तं रसं मृतं पारदं वितरति येन रसेन काश्चनसिद्धिं

हेमसिद्धिमेति प्राप्नोति । तथा चायुर्वेद विदः - कृष्णाभ्रं मारितं येन पारदं च वशीकृ-

तम् । द्वारमुद्घाधाटितं तेन कुबेरस्य यमस्य च ॥ इति । 'अथ चपलो रसः सूतश्च पारदे
 

इत्यमरः ॥
 

 
इह विदधतु नाम पामराणां प्रणतिकृतामपरे प्रभुप्रतीतिम् ।

प्रभवति न तु मृत्युभीतिभङ्गे जगति भवन्तमृतेऽमृतेश कश्चित् ॥ ८ ॥
 

 
अपरेऽन्ये लोकाः प्रणतिकृतां क्वापि स्वस्मादधिके पुंसि प्रह्वशिरसां पामराणां नीच-

जनानां प्रभुप्रतीतिमयं नः प्रभुः स्वामीति प्रतीतिस्तां विदधतु । तु पक्षान्तरे । इह

सकलेऽपि जगति हे अमृतेश मृत्युंजय, भवन्तं प्रभुमृते मृत्युभीतिभङ्गे यमभयनाशे

कश्चिन्न प्रभवति समर्थो भवति ॥
 

पूर्ववृत्तोक्तमेव दर्शयति-

 
वियदियति महस्विमण्डले कः श्रितवति कर्तुमनष्टचेष्टमीष्टे ।

विषमतमतमःप्रबन्धमन्धं जगदगदं घृणिमन्तमन्तरेणंण[^१] ॥ ९ ॥
 
-
 

 
इयति महति महस्विमण्डले तेजस्विमण्डलेऽपि वियदाकाशं श्रितवति विषमतमतमः-

प्रबन्धमतिविषमान्धतमसमन्धं जगदनष्टचेष्टं पूर्णसकलचेष्टमगदं नीरोगं कर्तुतुं क ईष्टे स-

मर्थो भगवति । कमन्तरेण । घृणिमन्तं सूर्यमन्तरेण । यथैतत्तथैव मृत्युभीतिभङ्गे एक एव

श्रीमृत्युंजयः प्रभवति नान्य इत्यर्थः । 'वियद्विष्णुपदं' इत्यमरः ॥
 

 
शकलितकलितर्ष सप्रकर्ष प्रकटितहर्ष महर्षभाधिरूढ ।
 

दिश विशदमदभ्रमभ्रसिन्धुद्रवधवलं भवलङ्घनं प्रसादम् ॥ १० ॥

 
प्रभवति भवति प्रसादरम्यां दिशति दृशं न विभा विभावरीणाम् ।

सवितरि वितरिष्यति प्रकाशं नहि महिमप्रभवो विभावरीणाम् ॥ ११ ॥

(युगलकम्)
 

 
हे महर्षमाभाधिरूढ शंभो । किंभूत । शकलितकलितर्ष । शकलितः कलितर्षः कलि-

युगलिप्सा येन तस्य संबोधनम् । तथा सह प्रकर्षेण सर्वोत्कृष्टत्वेन वर्तते यः स तस्याम-

न्त्रणम् । तथा प्रकटितो हर्षः परमानन्दो येन स तस्य संबोधनम् । एवंविध विभो ।

अदभ्रमनल्पमत्भ्रसिन्धुद्रवधवलं गङ्गाप्रवाहवद्धवलं भवलङ्घनं संसारोल्लङ्घनं प्रसादं प्रसन्न -

ताजनितमनुग्रहं दिश देहि ॥ हे शंभो, भवति त्वयि विभौ प्रसादेन रम्यां दृशं दृष्टि
टिं
दिशति सति अरीणां शत्रूणां कामादीनां बाह्यानां वा विभा दीप्तिर्न प्रभवति समर्था

भवति । दृष्टं चैतत् । हि यस्मात्कारणात्सवितरि सूर्ये प्रकाशं वितरिष्यति दास्यति

सति विभावरीणां रात्रीणां महिमप्रभवः प्रभावोत्पत्तिर्न भवति । विभाति चान्द्रेण महसा

विभावरी रात्रिः ॥ युग्मम् ॥
 

 
[^
]. स्व -पुस्तकेऽस्माच्छोछ्लोकादनन्तरं 'युगलकम्' इत्यस्ति.
 
Digitized by Google