This page has been fully proofread once and needs a second look.

कलयतु भवतामभग्न[^
 
कलयतु भवतामभग्नर्
]वृत्तिर्हरहरशंकरशंकरेति सूक्तिः ।

अविरलगलमण्डनप्रतिष्ठां किममलमौक्तिकदामकामनाभिः ॥ ३ ॥
 

 
हे भावुकजनाः, अभन्ग्ना क्षणमपि न भग्ना वृत्तिर्यस्याः । सर्वदैव कण्ठस्थितेत्यर्थः ।

एवंभूता हरहर शंकरशंकरेति प्रहर्षोत्कर्षेण या सूक्तिः शोभनोक्तिः सैव भवतामनल्प-

कण्ठभूषणस्थितितिं कलयतु । करोत्वित्यर्थः । अमलमौक्तिकदामकामनामिः स्वच्छमौ-

क्तिकदामकामनाभिः किं भवति ॥
 
काव्यमाला ।
 

 
कलयत मणिकुण्डलेऽवलेपं श्लथयत निर्मलमल्लिकाभिलाषम् ।

हरचरितनुतिक्रमैरजस्रं कुरुत नवश्रवणावतंसलीलाम् ॥ ४ ॥
 

 
हे भक्तलोकाः, यूयं....निर्मलमल्लिकानां जातीकुसुमानामभिलाषं श्लथं

कुरुत । हरचरणनुतिक्रमैः शंभुस्तुतिक्रमैः नवकर्णावतंसलीलां कुरुत ॥
 

 
इह विहे[^२]हतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् ।
 

नमति न मतिमानमानवीयप्रमदविधानपरं परं हरं कः ॥ ५ ॥
 

 
इह लोके विशेषेण हतो निःशेषीकृतो भवोपतापो भवमरुभ्रमो येन स तादृक् तम् ।

तथा आपज्जन्मजरामरणत्रासविपत्तस्याः प्रकर्षेण शमे समर्थस्तम् । तथा अनर्थाः पश्ञ्चा-

विद्यादयः क्लेशास्तेषां नाशे कारणभूतम् । तथा अमानवीयो लोकोत्तरो यः प्रमदः प्रहर्षः

परमानन्दरूपस्तस्य विधाने परो रतस्तं हरं श्रीशिवभट्टारकं परं परादपि परमत्युत्कृष्टं

परं केवलं को मतिमान्धीमान्न नमति । अपि तु सर्वः ॥
 

 
त्रिजगति भजति स्थितितिं बुधानां धुरि दुरितक्षतिशिक्षितः स एकः ।

शशिशकलशिखामणिप्रणामप्रणयि बिभर्ति शिरश्चिरस्थिरं यः ॥ ६ ॥

 
त्रिजगति यो भाग्यवाञ्शशिशकलशिखामणिप्रणामाथि चिरस्थिरं बहुकालं निजं

शिरो बिभर्ति स एको दुरितक्षतौ सकलपापक्षये शिक्षितो निपुणः । बुधानां पण्डिता-

नामैहिकस्थित्या परत्र च बुधानां देवानां धुरि त्रिजगत्यपि त्रिलोकमध्येऽपि स्थिति
तिं
भजति ॥
 

 
स जयति जगदीश शक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी ।

रसमसमचमत्कृतिप्रसूतितिं वितरति काञ्चनसिद्धिमेति येन ॥ ७ ॥
 

 
हे जगदीश त्रैलोक्यनाथ, स तव शक्तिपातोऽदूरमनुग्रहृदृष्टधट्यवलोकनरूपशक्तिपातो

जयति सर्वोत्कृष्टो भवति । स क इत्याह – यद्यस्मादुक्तिदेवी वाग्देवी असमा चमत्कृ

तिप्रसूतिर्लोकोत्तरा चमत्कारप्रसूतिर्यस्मात्स तादृक् तं तथाविधं रसं वितरति ददाति ।

तं कमित्याह – येनाद्भुतेन रसेन कां च न सिद्धिमपि तु सर्वामष्टविधामाणिमादिकामेति ।
 

 
[^
]. 'भक्तिः' ख.
[^
]. 'विहित' स्व.
 
Digitized by Google