2023-02-23 21:27:35 by ambuda-bot
This page has not been fully proofread.
२१८
कलयतु भवतामभग्नर्वृत्तिर्हरहरशंकरशंकरेति सूक्तिः ।
अविरलगलमण्डनप्रतिष्ठां किममलमौक्तिकदामकामनाभिः ॥ ३ ॥
हे भावुकजनाः, अभन्ना क्षणमपि न भग्ना वृत्तिर्यस्याः । सर्वदैव कण्ठस्थितेत्यर्थः ।
एवंभूता हरहर शंकरशंकरेति प्रहर्षोत्कर्षेण या सूक्तिः शोभनोक्तिः सैव भवतामनल्प-
कण्ठभूषणस्थिति कलयतु । करोत्वित्यर्थः । अमलमौक्तिकदामकामनामिः स्वच्छमौ-
क्तिकदामकामनाभिः किं भवति ॥
काव्यमाला ।
कलयत मणिकुण्डलेऽवलेपं लथयत निर्मलमल्लिकाभिलाषम् ।
हरचरितनुतिक्रमैरजस्रं कुरुत नवश्रवणावतंसलीलाम् ॥ ४ ॥
हे भक्तलोकाः, यूयं....निर्मलमल्लिकानां जातीकुसुमानामभिलाषं श्लथं
कुरुत । हरचरणनुतिक्रमैः शंभुस्तुतिक्रमैः नवकर्णावतंसलीलां कुरुत ॥
इह विहेतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् ।
नमति न मतिमानमानवीयप्रमदविधानपरं परं हरं कः ॥ ५ ॥
इह लोके विशेषेण हतो निःशेषीकृतो भवोपतापो भवमरुभ्रमो येन स तादृक् तम् ।
तथा आपज्जन्मजरामरणत्रासविपत्तस्याः प्रकर्षेण शमे समर्थस्तम् । तथा अनर्थाः पश्चा-
विद्यादयः क्लेशास्तेषां नाशे कारणभूतम् । तथा अमानवीयो लोकोत्तरो यः प्रमदः प्रहर्षः
परमानन्दरूपस्तस्य विधाने परो रतस्तं हरं श्रीशिवभट्टारकं परं परादपि परमत्युत्कृष्टं
परं केवलं को मतिमान्धीमान नमति । अपि तु सर्वः ॥
त्रिजगति भजति स्थिति बुधानां धुरि दुरितक्षतिशिक्षितः स एकः ।
शशिशकलशिखामणिप्रणामप्रणयि बिभर्ति शिरश्चिरस्थिरं यः ॥ ६ ॥
त्रिजगति यो भाग्यवाञ्शशिशकलशिखामणिप्रणामाथि चिरस्थिरं बहुकालं निजं
शिरो बिभर्ति स एको दुरितक्षतौ सकलपापक्षये शिक्षितो निपुणः । बुधानां पण्डिता-
नामैहिकस्थित्या परत्र च बुधानां देवानां धुरि त्रिजगत्यपि त्रिलोकमध्येऽपि स्थिति
भजति ॥
स जयति जगदीश शक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी ।
रसमसमचमत्कृतिप्रसूति वितरति काञ्चनसिद्धिमेति येन ॥ ७ ॥
हे जगदीश त्रैलोक्यनाथ, स तव शक्तिपातोऽदूरमनुग्रहृदृष्टधवलोकनरूपशक्तिपातो
जयति सर्वोत्कृष्टो भवति । स क इत्याह – यद्यस्मादुक्तिदेवी वाग्देवी असमा चमत्कृ
तिप्रसूतिर्लोकोत्तरा चमत्कारप्रसूतिर्यस्मात्स तादृक् तं तथाविधं रसं वितरति ददाति ।
तं कमित्याह – येनाद्भुतेन रसेन कां च न सिद्धिमपि तु सर्वामष्टविधामाणिमादिकामेति ।
१. 'भक्तिः' ख. २. 'विहित' स्व.
Digitized by Google