This page has been fully proofread once and needs a second look.

१३ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२१७
 
जस्य गजासुरस्यारिर्घातकोऽपि नगजायाः पार्वत्याः प्रियो वल्लभः किं भवसि । यो ग

जारिः स कथं न गजाप्रियो गजस्याप्रियो रिपुर्गजाप्रिय इति विरोधाभासः । यदि वा

पक्षान्तरे । भवतः स्वातन्त्र्यं स्वतन्त्रकर्तृत्वमेव भवति किमन्यडूद्द्रूमहे ॥
 

 
अरुणद्युतिग्लपितशीतदीधिति प्रकटीकृतालिकमलं विलोक्य मे ।
 

 
भवतः प्रभातमिव भाललोचनं भजते कदा नु विषमं शमं तमः ॥ ३२ ॥
 
>
 

 
हे स्वामिन् अलमत्यर्थमरुणा लोहिता चासौ बुतिद्युतिर्दीप्तिस्तया ग्लपितो ग्लानि
निं
प्रापितः शीतदीधितिर्येन तत् । तथा प्रकटीकृतं सुप्रकाशीकृतमलिकं ललाटं येन तत् ।

'ललाटमलिकं गोधिः' इत्यमरः । एवंभूतं प्रभातमिव भवतो भाललोचनं विलोक्य मे

मम विषमं कठिनं तमोऽज्ञानरूपमन्धकारं शमं कदा नु भजते । प्रभातमपि किंभूतम् ।

अरुणस्यानूरो: सूर्यसूतस्य द्युत्या ग्लपितो ग्लानिं प्राप्तः शीतदीधितिर्यत्र तत् । पुनः

किंभूतम् । प्रकटीकृतालिकमलं प्रकटीकृता अलयो भ्रमरा येषु तानि प्रकटीकृतालीनि

कमलानि पद्मानि यत्र तत् । यथा प्रभाते समस्तं तमः शाम्यति तथा ममापीत्यर्थः ॥

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

तमः शमनं नाम द्वादशं स्तोत्रम् ।
 

 
त्रयोदशं स्तोत्रम् ।
 
-
 

 
अथातः प्रभुप्रसादनाख्यं त्रयोदशं स्तोत्रमारभमाण आह-

 
अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः ।

विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥ १ ॥
 

 
अथानन्तरममन्थराणि प्रगल्भानि पदानि यासां तास्तादृशीभिः । तथा सुजनानी
नां
विपश्चितां भक्तजनानां मनांस्येव मृगास्तेषां वागुरा मृगबन्धनपाशरूपास्ताभिः । सुज-

नचेतोबन्धनैकहेतुभिरित्यर्थः । आभिर्वक्ष्यमाणाभिर्नुतिभिः स्तुतिभिरभयदं जगदभयप्रदं

तथारातीनां शत्रूणामान्तराणां कामक्रोधादीनां बाह्यानां च रिपूणां यत्क्षपणं दूरीक

रणं स एव पणो नियमस्तत्र प्रवणं लग्नं विभुमीश्वरमादराद्भक्त्युल्लासादरेण प्रसादयाम:

प्रसन्नं कर्तुमिच्छामः ॥
 

 
सुरमुकुटविटङ्करत्नरोचिःखचितनखाङ्करकेसराभिरामम् ।
 

पुरहरचरणारविन्दयुग्मं शिरसि विधत्त किरीटवाञ्छया किम् ॥ २ ॥

 
सुराणां देवानां यानि मुकुटानि तान्येव विटङ्कानि बहिःस्था अप्ग्रभागास्तेषु रत्नरो-

चिर्भिः खचिता ये नखाङ्कुरास्तेषां केसराणि तैरभिरामं पुरहरचरणारविन्दयुग्मं श्रीशं-

भुपादाब्जयुगलं हे भक्तजनाः शिरसि विधत्त कुरुत । किरीटवाञ्छया किम् । न किंचि

दिव्त्यर्थः ॥
 
२८
 
Digitized by Google