This page has not been fully proofread.

१३ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२१७
 
जस्य गजासुरस्यारिर्घातकोऽपि नगजायाः पार्वत्याः प्रियो वल्लभः किं भवसि । यो ग
जारिः स कथं न गजाप्रियो गजस्याप्रियो रिपुर्गजाप्रिय इति विरोधाभासः । यदि वा
पक्षान्तरे । भवतः स्वातन्त्र्यं स्वतन्त्रकर्तृत्वमेव भवति किमन्यडूमहे ॥
 
अरुणद्युतिग्लपितशीतदीधिति प्रकटीकृतालिकमलं विलोक्य मे ।
 
भवतः प्रभातमिव भाललोचनं भजते कदा नु विषमं शमं तमः ॥ ३२ ॥
 
>
 
हे स्वामिन् अलमत्यर्थमरुणा लोहिता चासौ बुतिदीप्तिस्तया ग्लपितो ग्लानि
प्रापितः शीतदीधितिर्येन तत् । तथा प्रकटीकृतं सुप्रकाशीकृतमलिकं ललाटं येन तत् ।
'ललाटमलिकं गोधिः' इत्यमरः । एवंभूतं प्रभातमिव भवतो भाललोचनं विलोक्य मे
मम विषमं कठिनं तमोऽज्ञानरूपमन्धकारं शमं कदा नु भजते । प्रभातमपि किंभूतम् ।
अरुणस्यानूरो: सूर्यसूतस्य द्युत्या ग्लपितो ग्लानिं प्राप्तः शीतदीधितिर्यत्र तत् । पुनः
किंभूतम् । प्रकटीकृतालिकमलं प्रकटीकृता अलयो भ्रमरा येषु तानि प्रकटीकृतालीनि
कमलानि पद्मानि यत्र तत् । यथा प्रभाते समस्तं तमः शाम्यति तथा ममापीत्यर्थः ॥
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअलौ
तमः शमनं नाम द्वादशं स्तोत्रम् ।
 
त्रयोदशं स्तोत्रम् ।
 
-
 
अथातः प्रभुप्रसादनाख्यं त्रयोदशं स्तोत्रमारभमाण आह-
अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः ।
विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥ १ ॥
 
अथानन्तरममन्थराणि प्रगल्भानि पदानि यासां तास्तादृशीभिः । तथा सुजनानी
विपश्चितां भक्तजनानां मनांस्येव मृगास्तेषां वागुरा मृगबन्धनपाशरूपास्ताभिः । सुज-
नचेतोबन्धनैकहेतुभिरित्यर्थः । आभिर्वक्ष्यमाणाभिनुतिभिः स्तुतिभिरभयदं जगदभयप्रदं
तथारातीनां शत्रूणामान्तराणां कामक्रोधादीनां बाह्यानां च रिपूणां यत्क्षपणं दूरीक
रणं स एव पणो नियमस्तत्र प्रवणं लग्नं विभुमीश्वरमादराद्भक्त्युल्लासादरेण प्रसादयाम:
प्रसन्नं कर्तुमिच्छामः ॥
 
सुरमुकुटविटङ्करत्नरोचिःखचितनखाङ्करकेसराभिरामम् ।
 
पुरहरचरणारविन्दयुग्मं शिरसि विधत्त किरीटवाञ्छया किम् ॥ २ ॥
सुराणां देवानां यानि मुकुटानि तान्येव विटङ्कानि बहिःस्था अप्रभागास्तेषु रत्नरो-
चिभिः खचिता ये नखाङ्कुरास्तेषां केसराणि तैरभिरामं पुरहरचरणारविन्दयुग्मं श्रीशं-
भुपादाब्जयुगलं हे भक्तजनाः शिरसि विधत्त कुरुत । किरीटवाञ्छया किम् । न किंचि
दिव्यर्थः ॥
 
२८
 
Digitized by Google