This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
का
मस्य मदनस्य भङ्गस्तं पूर्वं पुरा कथमङ्गीचकार । कामोऽभिलाषो मदनश्च । यः प्रह्र

नस्य कामभङ्गं नाङ्गीकरोति स कथं कामङ्गं करोतीत्यद्भुतम् ॥

 
कि मेरुमन्दरमुखा गिरयः शिरोभि-

रत्युन्नतैर्दधति गर्वमखर्वमेते ।

एतत्तुषारकिरणाभरणप्रणाम-
प्रहं

प्रह्वं
जगज्जयति मामकमुत्तमाङ्गम् ॥ २९ ॥

 
मेरुर्हेमाद्रि: । मन्दरो मन्थाद्रिः । तत्प्रभृतयो गिरय एते शैला अत्युन्नतैः शिरोभिः

शिखरैरखर्वमनल्पं गर्वमहंकारं किं दधति । तच्छिरसामौन्नत्यस्य चलत्वादित्यर्थः । तु

पक्षान्तरे । तुषारकिरणाभरणस्य शंभोः प्रणामेन प्रहंह्वं नम्रं मामकमुत्तमाङ्गं शिरो जगज्ज-

यति । शंभुप्रणामनघंम्रं मामकं शिर एव कृतार्थं धन्यमित्यर्थः ॥

 
गात्रान्तरातिशयशंसि यदेतदुच्चै-

र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति ।

तद्
युज्यते भव भवच्चरणारविन्द-

पीठप्रणामपरमस्य नमस्यमस्य ॥ ३० ॥
 

 
हे भव, भवत्युत्पद्यतेऽस्माच्छिवादि क्षित्यन्तं समस्तमिति भवस्तस्यामन्त्रणं हे भव

नाथ, गात्रान्तरेभ्यः करचरणादिभ्योऽतिशयं शंसतीति तादृगुत्तमाङ्गमित्युच्चैर्नाम शिरो

यद्विभर्ति तदस्य नाम नमस्यं युज्यत एव । अत्र हेतुमाह - किंभूतस्य । भवतश्चरणार-

विन्दपीठे पादपीठे प्रणामपरमस्य प्रणामपरायणस्य । अत एव तस्योत्तमाङ्गत्वं न तु

गात्रान्तरातिशयेनेत्यर्थः ॥
 

 
कि श्रीघनोऽप्यसुगतः किमुमाधवोऽपि

न त्वं कदाचन जनार्दनतां विभर्षि ।

स्वामिन्गजारिरपि किं नगजाप्रियस्त्वं
 

स्वातन्त्र्यमस्ति [^१]यदिवा भवतः किमन्यत् ॥ ३१ ॥
 

 
हे स्वामिन् श्रिया परमैश्वर्यकैवल्यरूपया घनः श्रीघनोऽपि त्वमसुगतोऽसून्प्राणां-

स्त्रिजगतोऽपि गतोऽसुगतोऽसि । अथ च यः श्रीघनो बुद्धः स कथं सुगतो न भवतीति

विरोधाभासः । 'सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । मुनीन्द्रः श्रीघनः शास्ता'

इत्यमरः । उमाधव उमाया: पार्वत्या धवो वल्लभस्त्वं जनार्दनतां जनानर्दयति पीडय-

तीति जनार्दनस्तद्भावं कदाचन जातु न बिभर्षि । अथ च किमु पक्षान्तरे । माधवो

हरिरपि सन् जनार्दनतां विष्णुत्वं न बिभर्तीति विरोधाभासः । हे विभो, त्वं गजारिर्ग-

 
[^
]. 'भवतो यदिवा'
 
.
 
Digitized by Google