2023-02-23 21:27:34 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
कामस्य मदनस्य भङ्गस्तं पूर्व पुरा कथमङ्गीचकार । कामोऽभिलाषो मदनथ । यः प्रहज
नस्य कामभङ्गं नाङ्गीकरोति स कथं काममङ्गं करोतीत्यद्भुतम् ॥
कि मेरुमन्दरमुखा गिरयः शिरोभि-
रत्युन्नतैर्दधति गर्वमखर्वमेते ।
एतत्तुषारकिरणाभरणप्रणाम-
प्रहं जगज्जयति मामकमुत्तमाङ्गम् ॥ २९ ॥
मेरुर्हेमाद्रि: । मन्दरो मन्थाद्रिः । तत्प्रभृतयो गिरय एते शैला अत्युन्नतैः शिरोभिः
शिखरैरखर्वमनल्पं गर्वमहंकारं किं दधति । तच्छिरसामौन्नत्यस्य चलत्वादित्यर्थः । तु
पक्षान्तरे । तुषारकिरणाभरणस्य शंभोः प्रणामेन प्रहं नम्रं मामकमुत्तमाङ्गं शिरो जगब-
यति । शंभुप्रणामनघं मामकं शिर एव कृतार्थ धन्यमित्यर्थः ॥
गात्रान्तरातिशयशंसि यदेतदुच्चै-
र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति ।
तयुज्यते भव भवच्चरणारविन्द-
पीठप्रणामपरमस्य नमस्यमस्य ॥ ३० ॥
हे भव, भवत्युत्पद्यतेऽस्माच्छिवादि क्षित्यन्तं समस्तमिति भवस्तस्यामन्त्रणं हे भव
नाथ, गात्रान्तरेभ्यः करचरणादिभ्योऽतिशयं शंसतीति ताहगुत्तमाङ्गमित्युच्चैर्नाम शिरो
यद्विभति तदस्य नाम नमस्यं युज्यत एव । अत्र हेतुमाह - किंभूतस्य । भवतश्चरणार-
विन्दपीठे पादपीठे प्रणामपरमस्य प्रणामपरायणस्य । अत एव तस्योत्तमाङ्गत्वं न तु
गात्रान्तरातिशयेनेत्यर्थः ॥
कि श्रीघनोऽप्यसुगतः किमुमाधवोऽपि
न त्वं कदाचन जनार्दनतां विभषि ।
स्वामिन्गजारिरपि किं नगजाप्रियस्त्वं
स्वातन्त्र्यमस्ति यदिवा भवतः किमन्यत् ॥ ३१ ॥
हे स्वामिन् श्रिया परमैश्वर्यकैवल्यरूपया घनः श्रीघनोऽपि त्वमसुगतोऽसून्प्राणां-
स्त्रिजगतोऽपि गतोऽसुगतोऽसि । अथ च यः श्रीघनो बुद्धः स कथं सुगतो न भवतीति
विरोधाभासः । 'सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । मुनीन्द्रः श्रीघनः शास्ता'
इत्यमरः । उमाधव उमाया: पार्वत्या धवो वल्लभस्त्वं जनार्दनतां जनानर्दयति पीडय-
तीति जनार्दनस्तद्भावं कदाचन जातु न बिभर्षि । अथ च किमु पक्षान्तरे । माधवो
हरिरपि सन् जनार्दनतां विष्णुत्वं न बिभर्तीति विरोधाभासः । हे विभो, त्वं गजारिर्ग-
१. 'भवतो यदिवा'
.
Digitized by Google