This page has been fully proofread once and needs a second look.

१२ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
त्वद्दर्शनात्कृतधियां दधताममन्द-

मानन्दमन्तक भयाद्भगवन्परेषाम् ॥ २९ ॥
 

 
हे भगवन्, घर्मः स्वेदः । प्रकम्पः । पुलको रोमाञ्चः । गिरि वाण्यां गद्गदत्वं स्-

लद्गतित्वम् । इत्यादयोऽवस्थास्त्वदेकध्यानेन त्वद्दर्शनादमन्दमानन्दं दधतां कृतधियां

धीमतामन्त्यक्षणे निर्याणसमये प्रभवन्त्युत्पद्यन्ते परेषामकृतधियां पापिनामेता अवस्था

अन्तकभयाद्यमभयान्मृत्युक्षणे भवन्ति ॥

 
अन्त्यक्षणे भव भवच्चरणाब्जसेवा-

हेवाकिनो दधति केचन कण्ठपीठे ।

भोगीन्द्रभोगमधिगम्य भवद्गणत्व-

मन्ये कृतान्तकरकोटरकोटिकृष्टम् ॥ २६ ॥
 

 
हे भव शंभो, भवच्चरणाब्जसेवायां हेवाकिनो धन्याः सुकृतिनो जनाः केचन वि

रला अन्त्यक्षणे मृत्युक्षणे भवद्गणत्वं भवत्प्रमथत्वमवाप्य कण्ठपीठे निजे भोगीन्द्रभोगं

नागेन्द्रफणं दधति । अन्ये पुनः पापिनः कृतान्तस्य यमस्य करमध्यप्रान्तकृष्टम् ॥

 
भीताभयार्पणविधौ किल कालनाशं
 

कर्तुं न यः क्षणमपि क्षमते कदापि ।

श्वेताभयार्पणपरस्य कथं नु काल-

नाशक्षमत्वमभवत्तव तस्य देव ॥ २७ ॥
 
२१९
 

 
हे देव । किल निश्चये । भीतानां जनानामभयार्पणविधाने कालस्य समयस्य नाशः

क्षेपस्तं कालनाशं कालक्षेपं क्षणमपि कर्तुतुं यो भवान्न क्षमते । अहं वेद्मीति शेषः । तस्य

तव श्वेतस्य श्वेताख्यनृपतेः यदयं मा भैषीरित्यभयवचनामृतं तदर्पणविधौ कालस्य य
-
मस्य नाशस्तत्र क्षमत्वं कथं न्वभवत् । कालः समयो यमश्च । भीतत्राणार्पणे कालना-

शाक्षमस्यापि कालनाराक्षमत्वं श्वेताभयदान इत्यद्भुतमित्यर्थः ॥
 

 
भङ्गंक्तुं न पारयति यः क्वचिदेव देव
 

कामं कृपामृतमृदुस्तव दृष्टिपातः ।

उद्दामरोषपरुषः किल कामभङ्ग-

मङ्गीचकार कथमेष महेश पूर्वम् ॥ २८ ॥
 

 
हे देव, दीव्यति परमपदे देवस्तत्संबोधनम् । कृपामृतेन कोमलो यस्तव दृष्टिपातः ।

प्रह्जनस्येति शेषः । प्रह्जनस्य काममभिलाषं भरूंङ्क्तुं क्वचिदपि न पारयत्येष एव तव दृष्टि-

पात उद्दामरोषेण प्रचण्डरोषेण परुषः सन् हे महेश परमशिव । किलेत्यागमे । कामभङ्गं
 
Digitized by Google