This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
पद्मसद्मकरमर्दलालितं पद्मनाभनयनाब्जपूजितम् ।

पद्मबन्धुमुकुटांशुरञ्जितं पादपद्मयुगमैश्वरं स्तुमः ॥ १६ ॥
 

 
पद्मसद्मेति । पद्मसद्मा ब्रह्मा तस्य करौ ताभ्यां मर्दो हस्तसंवाहनं तेन लालितम् ।

तथा पद्मनाभो विष्णुस्तस्य नयनमेवाब्जं तेन पूजितम् । 'हरिस्ते साहस्रं कमलबलि-

माधाय पदयोर्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम्' इत्युक्तेः । तथा पद्मबन्धुः सूर्य-

स्तस्य ये मुकुटांशवस्तै रञ्जितम् । ऐश्वरमीश्वरस्येदं पादपद्मयुगलं वयं स्तुमः ॥

 
अङ्घ्रियुग्मममरेशमस्तकस्त्रग्भिरुज्ज्वलमुरश्च
 
भस्मभिः ।
 

शेखरं च हिमरश्मिरश्मिभिर्यो बिभर्ति तमुपास्महे विभुम् ॥ १७ ॥
 

 
भिङ्घ्रियुग्ममिति । अमरेशमस्तक स्रग्भिरिन्द्रशिरः
कुसुममालाभिरुज्ज्वलं दीप्तं पा

दद्वयम्, तथा भस्मभिरुज्ज्वलमुरो वक्षःस्थलंच, तथा हिमरश्मिरश्मिभिश्चन्द्रकरैरुज्ज्वलं

शेखरं मुकुटं च बिभर्ति तं विभुं वयमुपास्महे ॥
 

 
मूर्ध्नि चन्द्रकरसुन्दरत्विषं फेनपिण्डपरिपाण्डुरस्मिताम् ।

देहिनां वहति तापहारिणीं सिद्धसिन्धुमतनुं तनुं च यः ॥ १८ ॥

 
कर्तुमुत्सहत एव सेवको यस्य कस्य न मनः सकौतुकम् ।

नौत शान्तनवविग्रहोऽपि सन्भीष्मतां न च विचित्तवीर्यताम् ॥ १९ ॥

 
आपतन्तमयमं यमं पुरो यः सविग्रहमविग्रहं व्यधात् ।
 

दर्पकं व्यधित योऽप्यदर्पकं तं विषादमविषादमाश्रये ॥ २०॥ (तिलकम् )
 

 
मूर्ध्नीति, कर्तुमिति, आपतन्तमिति, तिलकम् । अहं तं विषादं विषं कालकूटाख्य-

मत्ति समुद्रमथने इति विषात् शिवस्तमाश्रये । किंभूतम् । अविषादम् । अविद्यमानो

विषादो यस्य स तम् । परमानन्दस्वरूपमित्यर्थः । तं कम् । यो मूर्ध्नि शिरसि सिद्धसिन्धुं

गङ्गां वहति । तथा अतनुं महतीं तनुमाकृतिं च वहति । द्वे अपि विशिनष्टि–चन्द्र-

करवत्सुन्दरा त्विड् यस्यास्तां गङ्गाम् । चन्द्रकरैः सुन्दरत्विषं तनुं च । तथा फेन पिण्ड

इव जलक्षोभोत्थितनदीकफपिण्ड इव परिपाण्डुरं स्मितमीषद्धासो यस्यास्तां तनुम् ।

तथा देहिनां शरीरिणां तापहारिणीमध्यात्मिकाधिदैविकाधिभौतिकाख्यतापत्रयनिवा-

रिकां तनुं च बिभर्ति । समुच्चयालंकारः ॥
 

कर्तुमिति । यस्य सेवकः कर्ता कस्य न मनः सकौतुकं कर्तुमुत्सहत एव । अपि तु

सर्वस्य साश्चर्यं विधातुं शक्तो भवति । अत्र च यत्तदावार्थौ । कुतस्तत् । यद्यस्मात्कार-

णाच्छान्तः शममुपगतो नवोऽपि विग्रहो वैरं यस्य स एवंविधोऽपि सन्भीष्मतां भया-

नकत्वं नैति । तथा विचित्तवीर्यतां विगतं चित्तस्य वीर्यं यस्य स विचित्तवीर्यस्तस्य

भावस्तत्ता तां बिभर्ति न च । अथ च शन्तनो राज्ञोऽपत्यं शान्तनवः स एव विग्रहो
 
Digitized by Google