This page has been fully proofread once and needs a second look.

२१४
 
काव्यमाला ।
 
एष चन्दनद्रुमोऽहं प्रभोः श्रीशिवस्य प्रियः स्यामिति हेतोः परशुना क्षतव्यथां यतः

सेहेऽत एव गिरिजापतेः श्रीशंभोः साम्यं ध्रुत्रं बिभर्ति । कमित्याह – किंभूत चन्दन-

द्रुमः । भुजंगमैरालिङ्गिता कंधरा मूलादूर्ध्व पृथुशाखा यस्य सः । शंभुरपि नागालिङ्गि-

तकंधरः ॥
 

 
यच्चक्रिरे धूतनखान्तनिपातपीडाः
 

प्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् ।

यत्स्वामिनो न दहनेऽपि निपत्य सेवा-

हेवाकमौज्झदगुरोरपि गौरवं तत् ॥ २२ ॥
 

 
सुमनसः पुष्पाणि पूजार्थं पुष्पावचयसमये धृता नखान्तानां निपातेन पीडा या

भिस्ताः सुमनसो यत्प्रभोः शंभो: प्रीति चक्रिरे एतदेव सुमनसां पुष्पाणां सुमनस्त्वं पु.
रू
-
ष्
पत्वं सुशोभनं मनो यासां ताः सुमनसस्तत्त्वं च । अगुरुर्दहनेऽग्नावपि निपत्य स्वामिनः

शंभोः सेवाहेवाकं न औज्झन्न तत्याज तदगुरोरपि न गुरुरगुरुस्तस्यापि गौरवं भवति ॥

 
आदौ प्रदर्श्य परमामृजुतामथान्त-

राविश्य मर्मणि न यन्निशितास्तुदन्ति ।

स्वामिञ्शरा इव खलाः कृतिनो वनेषु
 

स त्वत्पदाम्बुजरजःकणजः प्रसादः ॥ २३ ॥
 

 
हे स्वामिन्, आदीदौ परामुत्कृष्टामृजुतां सरलत्वं प्रदर्श्य अथानन्तरमन्तः प्रविश्य नि-

शितास्तीक्ष्णाः शरा इव यद्वनेषु विपिनेषु स्थितान्कृतिनो विदुषो न तुदन्ति ब्व्यथयन्ति

त्वत्पदाम्बुजरजःकणोद्भूतः स प्रसादः ॥

 
त्वन्नाम पामरजनैरपि गीयमान-

मानन्दमर्पयति यं हृदि भक्तिभाजाम् ।

स्वामिन्नमानवयवेष्वखिलेषु नून-

मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥ २४ ॥
 

 
हे स्वामिन्, पामरजनैर्नीचजनैरपि [^१]हालाकादौ गीयमानं भक्तिभाजां हृदि यमानन्दं

समर्पयति । नूनं संभावनायाम् । अखिलेष्वङ्गेष्वमान् न मान्वर्तमानोऽसावानन्दो बहिः

पुलकच्छलेन रोमाञ्चव्याजेनोद्भिद्यते निर्याति ॥
 

 
धर्मः प्रकम्पपुलकौ गिरि गद्गदत्व -

मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः ।
 

 
[^
]. हालाको देशभाषानिबद्धो गीतविशेषः.
 
Digitized by Google